13.021
भीष्म उवाच॥
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति। तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥१३-२१-१॥
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना। अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥१३-२१-२॥
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्। भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥१३-२१-३॥
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा। स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ॥ दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥१३-२१-४॥
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च। व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥१३-२१-५॥
तत उत्थाय स मुनिस्तदा परमविस्मितः। पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥१३-२१-६॥
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत्। अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥१३-२१-७॥
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत्। तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ॥ व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ॥१३-२१-८॥
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत्। तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥१३-२१-९॥
अष्टावक्र उवाच॥
न भद्रे परदारेषु मनो मे सम्प्रसज्जति। उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥१३-२१-१०॥
भीष्म उवाच॥
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता। स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥१३-२१-११॥
अष्टावक्र उवाच॥
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः। प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥१३-२१-१२॥
स्त्र्युवाच॥
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै। अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥१३-२१-१३॥
अष्टावक्र उवाच॥
हरन्ति दोषजातानि नरं जातं यथेच्छकम्। प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥१३-२१-१४॥
स्त्र्युवाच॥
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि। भूमौ निपतमानायाः शरणं भव मेऽनघ ॥१३-२१-१५॥
यदि वा दोषजातं त्वं परदारेषु पश्यसि। आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥१३-२१-१६॥
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्। स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥१३-२१-१७॥
अष्टावक्र उवाच॥
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै। नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥१३-२१-१८॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥१३-२१-१९॥
स्त्र्युवाच॥
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः। कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ॥१३-२१-२०॥
अष्टावक्र उवाच॥
यथा मम तथा तुभ्यं यथा तव तथा मम। जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥१३-२१-२१॥
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत्। दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥१३-२१-२२॥
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः। कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥१३-२१-२३॥
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन। न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥१३-२१-२४॥