Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.022
युधिष्ठिर उवाच॥
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः। कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥१३-२२-१॥
भीष्म उवाच॥
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्। न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥१३-२२-२॥
स्त्र्युवाच॥
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम। शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥१३-२२-३॥
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते। अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥१३-२२-४॥
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ। स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥१३-२२-५॥
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः। स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ॥१३-२२-६॥
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ। तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥१३-२२-७॥
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति। कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥१३-२२-८॥
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्। अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥१३-२२-९॥
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि। यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥१३-२२-१०॥
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ। तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥१३-२२-११॥
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः। अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥१३-२२-१२॥
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च। अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥१३-२२-१३॥
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्। प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥१३-२२-१४॥
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम्। तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ॥१३-२२-१५॥
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः। श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥१३-२२-१६॥
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम्। नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥१३-२२-१७॥
भीष्म उवाच॥
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो। कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥१३-२२-१८॥
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्। उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥१३-२२-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.