13.023
पात्रपरीक्षा
युधिष्ठिर उवाच॥
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्। ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ॥१३-२३-१॥
भीष्म उवाच॥
स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा। देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥१३-२३-२॥
युधिष्ठिर उवाच॥
श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये। हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥१३-२३-३॥
भीष्म उवाच॥
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः। पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥१३-२३-४॥
युधिष्ठिर उवाच॥
न ब्राह्मणं परीक्षेत दैवेषु सततं नरः। कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥१३-२३-५॥
भीष्म उवाच॥
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति। देवप्रसादादिज्यन्ते यजमाना न संशयः ॥१३-२३-६॥
ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः। मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥१३-२३-७॥
युधिष्ठिर उवाच॥
अपूर्वोऽप्यथ वा विद्वान्सम्बन्धी वाथ यो भवेत्। तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥१३-२३-८॥
भीष्म उवाच॥
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्। ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥१३-२३-९॥
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम्। पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥१३-२३-१०॥
पृथिव्युवाच॥
यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति। तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ॥१३-२३-११॥
काश्यप उवाच॥
सर्वे च वेदाः सह षड्भिरङ्गैः; साङ्ख्यं पुराणं च कुले च जन्म। नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् ॥१३-२३-१२॥
अग्निरुवाच॥
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्। ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥१३-२३-१३॥
मार्कण्डेय उवाच॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥१३-२३-१४॥
भीष्म उवाच॥
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः। पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥१३-२३-१५॥
युधिष्ठिर उवाच॥
यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः। भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥१३-२३-१६॥
भीष्म उवाच॥
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः। भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥१३-२३-१७॥
युधिष्ठिर उवाच॥
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः। किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ॥१३-२३-१८॥
भीष्म उवाच॥
अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥१३-२३-१९॥
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्। अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो ॥१३-२३-२०॥
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः। दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ॥१३-२३-२१॥
मेदानां पुल्कसानां च तथैवान्तावसायिनाम्। कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ॥१३-२३-२२॥
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे। ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥१३-२३-२३॥
युधिष्ठिर उवाच॥
किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम्। किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥१३-२३-२४॥
भीष्म उवाच॥
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्। मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥१३-२३-२५॥
युधिष्ठिर उवाच॥
कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत्। कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥१३-२३-२६॥
भीष्म उवाच॥
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्। पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥१३-२३-२७॥
ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत्। सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥१३-२३-२८॥
अधिकारे यदनृतं राजगामि च पैशुनम्। गुरोश्चालीककरणं समं तद्ब्रह्महत्यया ॥१३-२३-२९॥
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च। भ्रूणहत्यासमं चैतदुभयं यो निषेवते ॥१३-२३-३०॥
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्। न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥१३-२३-३१॥
युधिष्ठिर उवाच॥
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्। कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥१३-२३-३२॥
भीष्म उवाच॥
अक्रोधना धर्मपराः सत्यनित्या दमे रताः। तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥१३-२३-३३॥
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः। सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥१३-२३-३४॥
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः। स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥१३-२३-३५॥
साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः। षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥१३-२३-३६॥
ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम्। सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥१३-२३-३७॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः। तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ॥१३-२३-३८॥
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्। द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥१३-२३-३९॥
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः। किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ॥१३-२३-४०॥
निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम्। दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ॥१३-२३-४१॥