13.024
दैवपित्र्यदानफलम्
युधिष्ठिर उवाच॥
श्राद्धकाले च दैवे च धर्मे चापि पितामह। इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ॥१३-२४-१॥
भीष्म उवाच॥
दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्। मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥१३-२४-२॥
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः। कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥१३-२४-३॥
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम्। रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ॥१३-२४-४॥
अवघुष्टं च यद्भुक्तमव्रतेन च भारत। परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥१३-२४-५॥
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्। रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥१३-२४-६॥
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत। दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥१३-२४-७॥
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्। दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥१३-२४-८॥
गर्हितं निन्दितं चैव परिविष्टं समन्युना। दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥१३-२४-९॥
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते। त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥१३-२४-१०॥
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते। दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥१३-२४-११॥
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ। अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥१३-२४-१२॥
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च। दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ॥१३-२४-१३॥
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः। अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ॥१३-२४-१४॥
चिकित्सका देवलका वृथानियमधारिणः। सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥१३-२४-१५॥
गायना नर्तकाश्चैव प्लवका वादकास्तथा। कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥१३-२४-१६॥
होतारो वृषलानां च वृषलाध्यापकास्तथा। तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥१३-२४-१७॥
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत। नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥१३-२४-१८॥
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः। ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥१३-२४-१९॥
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये। स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥१३-२४-२०॥
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत। पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥१३-२४-२१॥
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः। प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥१३-२४-२२॥
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ। अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥१३-२४-२३॥
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ। दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥१३-२४-२४॥
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः। सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥१३-२४-२५॥
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्। न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥१३-२४-२६॥
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्। अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥१३-२४-२७॥
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ। भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥१३-२४-२८॥
उदितास्तमितो यश्च तथैवास्तमितोदितः। अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥१३-२४-२९॥
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ। ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥१३-२४-३०॥
अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक्। पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥१३-२४-३१॥
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः। भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥१३-२४-३२॥
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्। अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ॥१३-२४-३३॥
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ। न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥१३-२४-३४॥
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा। सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥१३-२४-३५॥
श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत्। क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥१३-२४-३६॥
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत। अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥१३-२४-३७॥
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते। एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ॥ वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥१३-२४-३८॥
कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु। जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ॥ ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥१३-२४-३९॥
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी। बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥१३-२४-४०॥
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु। ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः ॥ चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥१३-२४-४१॥
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः। यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥१३-२४-४२॥
अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः। यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥१३-२४-४३॥
दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु। अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥१३-२४-४४॥
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु। ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥१३-२४-४५॥
अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत। आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥१३-२४-४६॥
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर। मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ॥१३-२४-४७॥
युधिष्ठिर उवाच॥
पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह। एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ॥१३-२४-४८॥
भीष्म उवाच॥
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः। उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥१३-२४-४९॥
चारित्रनियता राजन्ये कृशाः कृशवृत्तयः। अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥१३-२४-५०॥
तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः। अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥१३-२४-५१॥
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर। अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥१३-२४-५२॥
अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः। बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥१३-२४-५३॥
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे। अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥१३-२४-५४॥
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः। तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ॥१३-२४-५५॥
अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च। कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ॥१३-२४-५६॥
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः। स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥१३-२४-५७॥
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये। अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥१३-२४-५८॥
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ। निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥१३-२४-५९॥
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर। येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥१३-२४-६०॥
परदाराभिहर्तारः परदाराभिमर्शिनः। परदारप्रयोक्तारस्ते वै निरयगामिनः ॥१३-२४-६१॥
ये परस्वापहर्तारः परस्वानां च नाशकाः। सूचकाश्च परेषां ये ते वै निरयगामिनः ॥१३-२४-६२॥
प्रपाणां च सभानां च सङ्क्रमाणां च भारत। अगाराणां च भेत्तारो नरा निरयगामिनः ॥१३-२४-६३॥
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्। वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥१३-२४-६४॥
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत। मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ॥१३-२४-६५॥
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः। अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥१३-२४-६६॥
पाषण्डा दूषकाश्चैव समयानां च दूषकाः। ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥१३-२४-६७॥
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम्। भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥१३-२४-६८॥
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा। उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥१३-२४-६९॥
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः। वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥१३-२४-७०॥
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः। विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥१३-२४-७१॥
केशविक्रयिका राजन्विषविक्रयिकाश्च ये। क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥१३-२४-७२॥
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर। येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥१३-२४-७३॥
शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर। शल्यानां धनुषां चैव ते वै निरयगामिनः ॥१३-२४-७४॥
शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ। ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥१३-२४-७५॥
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ। ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥१३-२४-७६॥
अप्राप्तदमकाश्चैव नासानां वेधकास्तथा। बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥१३-२४-७७॥
अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः। समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥१३-२४-७८॥
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्। त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥१३-२४-७९॥
बालानामथ वृद्धानां दासानां चैव ये नराः। अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥१३-२४-८०॥
एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः। भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥१३-२४-८१॥
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत। हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥१३-२४-८२॥
दानेन तपसा चैव सत्येन च युधिष्ठिर। ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥१३-२४-८३॥
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत। ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥१३-२४-८४॥
भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात्। यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥१३-२४-८५॥
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः। मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ॥१३-२४-८६॥
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च। निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥१३-२४-८७॥
आश्रमाणां च कर्तारः कुलानां चैव भारत। देशानां नगराणां च ते नराः स्वर्गगामिनः ॥१३-२४-८८॥
वस्त्राभरणदातारो भक्षपानान्नदास्तथा। कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥१३-२४-८९॥
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये। सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥१३-२४-९०॥
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः। भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥१३-२४-९१॥
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत। ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥१३-२४-९२॥
अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः। आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥१३-२४-९३॥
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः। त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥१३-२४-९४॥
सुवर्णस्य च दातारो गवां च भरतर्षभ। यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥१३-२४-९५॥
वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर। दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥१३-२४-९६॥
विहारावसथोद्यानकूपारामसभाप्रदाः। वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥१३-२४-९७॥
निवेशनानां क्षेत्राणां वसतीनां च भारत। दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥१३-२४-९८॥
रसानामथ बीजानां धान्यानां च युधिष्ठिर। स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥१३-२४-९९॥
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः। सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥१३-२४-१००॥
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत। धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥१३-२४-१०१॥