13.025
ब्रह्मघातिस्वरूपम्
युधिष्ठिर उवाच॥
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत। अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥१३-२५-१॥
भीष्म उवाच॥
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्। तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥१३-२५-२॥
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने। अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥१३-२५-३॥
इति पृष्टो महाराज पराशरशरीरजः। अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥१३-२५-४॥
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्। ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-५॥
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत। वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-६॥
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप। उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-७॥
यः प्रवृत्तां श्रुतिं सम्यक्षास्त्रं वा मुनिभिः कृतम्। दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-८॥
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे। न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-९॥
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु। दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-१०॥
चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा। हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-११॥
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे। अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥१३-२५-१२॥