13.026
तीर्थप्रशंसा
युधिष्ठिर उवाच॥
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ। श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥१३-२६-१॥
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ। वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ॥१३-२६-२॥
भीष्म उवाच॥
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते। श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥१३-२६-३॥
तपोवनगतं विप्रमभिगम्य महामुनिम्। पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ॥१३-२६-४॥
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः। तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥१३-२६-५॥
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने। प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ॥१३-२६-६॥
अङ्गिरा उवाच॥
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्। विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ॥१३-२६-७॥
काश्मीरमण्डले नद्यो याः पतन्ति महानदम्। ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥१३-२६-८॥
पुष्करं च प्रभासं च नैमिषं सागरोदकम्। देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥ विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ॥१३-२६-९॥
हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम्। कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ॥१३-२६-१०॥
इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ। करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ॥ अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ॥१३-२६-११॥
गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते। तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥१३-२६-१२॥
अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत्। ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥१३-२६-१३॥
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम्। महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ॥ एकमासं निराहारः स्वयं पश्यति देवताः ॥१३-२६-१४॥
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्। सुधां वै लभते भोक्तुं यो नरो जायते पुनः ॥१३-२६-१५॥
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः। एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ॥१३-२६-१६॥
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः। त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥१३-२६-१७॥
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः। देवेषु कीर्तिं लभते यशसा च विराजते ॥१३-२६-१८॥
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे। अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ॥१३-२६-१९॥
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा। पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥१३-२६-२०॥
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा। निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥१३-२६-२१॥
कालिकाश्रममासाद्य विपाशायां कृतोदकः। ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ॥१३-२६-२२॥
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्। तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥१३-२६-२३॥
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः। त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥१३-२६-२४॥
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः। देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥१३-२६-२५॥
कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा। आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ॥१३-२६-२६॥
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले। विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ॥१३-२६-२७॥
श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च। त्रींस्त्रिरात्रान्स सन्धाय गन्धर्वनगरे वसेत् ॥१३-२६-२८॥
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके। एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ॥१३-२६-२९॥
कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः। एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥१३-२६-३०॥
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति। विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥१३-२६-३१॥
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः। फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥१३-२६-३२॥
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने। अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ॥१३-२६-३३॥
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ। षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ॥१३-२६-३४॥
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः। समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥१३-२६-३५॥
माघमासं प्रयागे तु नियतः संशितव्रतः। स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥१३-२६-३६॥
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः। वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥१३-२६-३७॥
तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः। एकमासं निराहारः सोमलोकमवाप्नुयात् ॥१३-२६-३८॥
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः। द्वादशाहं निराहारो नरमेधफलं लभेत् ॥१३-२६-३९॥
मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम्। तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ॥१३-२६-४०॥
कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम्। अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ॥ देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥१३-२६-४१॥
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै। नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥१३-२६-४२॥
उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः। लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥१३-२६-४३॥
रामह्रद उपस्पृश्य विशालायां कृतोदकः। द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥१३-२६-४४॥
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः। एकमासं निराहारो जमदग्निगतिं लभेत् ॥१३-२६-४५॥
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः। षण्मासं पदमास्थाय मासेनैकेन शुध्यति ॥१३-२६-४६॥
नर्मदायामुपस्पृश्य तथा सूर्पारकोदके। एकपक्षं निराहारो राजपुत्रो विधीयते ॥१३-२६-४७॥
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः। अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥१३-२६-४८॥
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम्। शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥१३-२६-४९॥
वैवस्वतस्य सदनं न स गच्छेत्कदाचन। यस्य कन्याह्रदे वासो देवलोकं स गच्छति ॥१३-२६-५०॥
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः। सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ॥१३-२६-५१॥
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे। पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥१३-२६-५२॥
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्। अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ॥१३-२६-५३॥
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः। अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥१३-२६-५४॥
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्। पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ॥१३-२६-५५॥
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च। कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ॥१३-२६-५६॥
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः। आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥१३-२६-५७॥
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके। अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥१३-२६-५८॥
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा। ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥१३-२६-५९॥
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्। न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥१३-२६-६०॥
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च। मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥१३-२६-६१॥
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम्। इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ॥१३-२६-६२॥
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा। सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥१३-२६-६३॥
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः। गुरुभिः समनुज्ञातः काश्यपेन च धीमता ॥१३-२६-६४॥
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्। जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥१३-२६-६५॥
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्। उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ॥१३-२६-६६॥