13.027
गङ्गाप्रशंसनम्
वैशम्पायन उवाच॥
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्। पराक्रमे शक्रसममादित्यसमतेजसम् ॥१३-२७-१॥
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम्। भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ॥१३-२७-२॥
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्। आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥१३-२७-३॥
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः। अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ॥१३-२७-४॥
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः। उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥१३-२७-५॥
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः। भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ॥१३-२७-६॥
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः। नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ॥१३-२७-७॥
नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः। जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ॥ समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥१३-२७-८॥
तेषां महात्मनां पूजामागतानां युधिष्ठिरः। भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ॥१३-२७-९॥
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः। भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥१३-२७-१०॥
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्। मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ॥१३-२७-११॥
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः। अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥१३-२७-१२॥
तानृषीन्सुमहाभागानन्तर्धानगतानपि। पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥१३-२७-१३॥
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः। उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥१३-२७-१४॥
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः। प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥१३-२७-१५॥
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते। पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥१३-२७-१६॥
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः। धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥१३-२७-१७॥
के देशाः के जनपदा आश्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥१३-२७-१८॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥१३-२७-१९॥
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम्। असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥१३-२७-२०॥
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः। कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ॥१३-२७-२१॥
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः। चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ॥१३-२७-२२॥
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः। प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥१३-२७-२३॥
शिलवृत्तिरुवाच॥
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥१३-२७-२४॥
सिद्ध उवाच॥
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः। येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥१३-२७-२५॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः। गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥१३-२७-२६॥
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्। न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥१३-२७-२७॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम्। गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥१३-२७-२८॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः। पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥१३-२७-२९॥
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्। व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥१३-२७-३०॥
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति। तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ॥१३-२७-३१॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः। तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥१३-२७-३२॥
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा। तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥१३-२७-३३॥
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः। क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥१३-२७-३४॥
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना। तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥१३-२७-३५॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते। तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥१३-२७-३६॥
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम्। गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥१३-२७-३७॥
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम्। पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥१३-२७-३८॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान्। मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥१३-२७-३९॥
लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान्। तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥१३-२७-४०॥
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम। तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥१३-२७-४१॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्। गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥१३-२७-४२॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्। गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥१३-२७-४३॥
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये। तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥१३-२७-४४॥
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्। पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥१३-२७-४५॥
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः। येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥१३-२७-४६॥
विनयाचारहीनाश्च अशिवाश्च नराधमाः। ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥१३-२७-४७॥
यथा सुराणाममृतं पितॄणां च यथा स्वधा। सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥१३-२७-४८॥
उपासते यथा बाला मातरं क्षुधयार्दिताः। श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥१३-२७-४९॥
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते। स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥१३-२७-५०॥
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता। तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥१३-२७-५१॥
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः। अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥१३-२७-५२॥
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः। मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥१३-२७-५३॥
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः। बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ॥१३-२७-५४॥
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा। स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ॥१३-२७-५५॥
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः। गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥१३-२७-५६॥
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्। पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥१३-२७-५७॥
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्। गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥१३-२७-५८॥
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः। अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥१३-२७-५९॥
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह। वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥१३-२७-६०॥
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे। पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥१३-२७-६१॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता। गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥१३-२७-६२॥
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात्। पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥१३-२७-६३॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च। स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥१३-२७-६४॥
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम्। प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥१३-२७-६५॥
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च। समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥१३-२७-६६॥
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम्। देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥१३-२७-६७॥
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः। विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥१३-२७-६८॥
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः। चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥१३-२७-६९॥
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः। आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥१३-२७-७०॥
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः। दधार शिरसा देवीं तामेव दिवि सेवते ॥१३-२७-७१॥
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः। यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥१३-२७-७२॥
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः। देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥१३-२७-७३॥
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा। न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥१३-२७-७४॥
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः। तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥१३-२७-७५॥
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति। गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥१३-२७-७६॥
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः। गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥१३-२७-७७॥
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि। गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥१३-२७-७८॥
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः। यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥१३-२७-७९॥
वाय्वीरिताभिः सुमहास्वनाभि; र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः। गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति ॥१३-२७-८०॥
पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम्। गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम् ॥१३-२७-८१॥
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा। देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति ॥१३-२७-८२॥
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम्। त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥१३-२७-८३॥
यो वत्स्यति द्रक्ष्यति वापि मर्त्य; स्तस्मै प्रयच्छन्ति सुखानि देवाः। तद्भाविताः स्पर्शने दर्शने य; स्तस्मै देवा गतिमिष्टां दिशन्ति ॥१३-२७-८४॥
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम्। विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते ॥१३-२७-८५॥
ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे। तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति ॥१३-२७-८६॥
इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा। प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया ॥१३-२७-८७॥
सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा। भव्या पृथिव्या भाविनी भाति राज; न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥१३-२७-८८॥
मधुप्रवाहा घृतरागोद्धृताभि; र्महोर्मिभिः शोभिता ब्राह्मणैश्च। दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला ॥१३-२७-८९॥
योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा। विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः ॥१३-२७-९०॥
क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव। तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् ॥१३-२७-९१॥
ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके। सर्वात्मना जाह्नवीं ये प्रपन्ना; स्ते ब्रह्मणः सदनं सम्प्रयाताः ॥१३-२७-९२॥
लोकानिमान्नयति या जननीव पुत्रा; न्सर्वात्मना सर्वगुणोपपन्ना। स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै; र्गङ्गा सदैवात्मवशैरुपास्या ॥१३-२७-९३॥
उस्रां जुष्टां मिषतीं विश्वतोया; मिरां वज्रीं रेवतीं भूधराणाम्। शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥१३-२७-९४॥
प्रसाद्य देवान्सविभून्समस्ता; न्भगीरथस्तपसोग्रेण गङ्गाम्। गामानयत्तामभिगम्य शश्व; न्पुमान्भयं नेह नामुत्र विद्यात् ॥१३-२७-९५॥
उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या। शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव ॥१३-२७-९६॥
मेरोः समुद्रस्य च सर्वरत्नैः; सङ्ख्योपलानामुदकस्य वापि। वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव ॥१३-२७-९७॥
तस्मादिमान्परया श्रद्धयोक्ता; न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव। भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः ॥१३-२७-९८॥
लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम्। गङ्गाकृतानचिरेणैव लोका; न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥१३-२७-९९॥
तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः। अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥१३-२७-१००॥
भीष्म उवाच॥
इति परममतिर्गुणाननेका; ञ्शिलरतये त्रिपथानुयोगरूपान्। बहुविधमनुशास्य तथ्यरूपा; न्गगनतलं द्युतिमान्विवेश सिद्धः ॥१३-२७-१०१॥
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा। गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ॥१३-२७-१०२॥
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः। गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥१३-२७-१०३॥
वैशम्पायन उवाच॥
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम्। युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ॥१३-२७-१०४॥
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा। गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ॥१३-२७-१०५॥