13.030
भीष्म उवाच॥
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः। अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥१३-३०-१॥
सुदुष्करं वहन्योगं कृशो धमनिसन्ततः। त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ॥१३-३०-२॥
तं पतन्तमभिद्रुत्य परिजग्राह वासवः। वराणामीश्वरो दाता सर्वभूतहिते रतः ॥१३-३०-३॥
शक्र उवाच॥
मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः। पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ॥१३-३०-४॥
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः। ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ॥१३-३०-५॥
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते। ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥१३-३०-६॥
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः। पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥१३-३०-७॥
मतङ्ग उवाच॥
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्। तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ॥१३-३०-८॥
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो। सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ॥१३-३०-९॥
यः पापेभ्यः पापतमस्तेषामधम एव सः। ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥१३-३०-१०॥
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्। दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥१३-३०-११॥
एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः। अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ॥१३-३०-१२॥
यथाकामविहारी स्यां कामरूपी विहङ्गमः। ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥ यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ॥१३-३०-१३॥
इन्द्र उवाच॥
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि। भीष्म उवाच ॥१३-३०-१४॥
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत। प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ॥१३-३०-१५॥
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत। तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥१३-३०-१६॥