Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.031
वीतहव्योपाख्यानम्
युधिष्ठिर उवाच॥
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह। सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ॥१३-३१-१॥
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत। श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ॥१३-३१-२॥
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः। तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥१३-३१-३॥
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम। वरेण तपसा वापि तन्मे व्याख्यातुमर्हति ॥१३-३१-४॥
भीष्म उवाच॥
शृणु राजन्यथा राजा वीतहव्यो महायशाः। क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥१३-३१-५॥
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः। बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥१३-३१-६॥
तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः। हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ॥१३-३१-७॥
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत। शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ॥१३-३१-८॥
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम्। धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥१३-३१-९॥
काशिष्वपि नृपो राजन्दिवोदासपितामहः। हर्यश्व इति विख्यातो बभूव जयतां वरः ॥१३-३१-१०॥
स वीतहव्यदायादैरागत्य पुरुषर्षभ। गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ॥१३-३१-११॥
तं तु हत्वा नरवरं हेहयास्ते महारथाः। प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥१३-३१-१२॥
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत। सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ॥१३-३१-१३॥
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः। तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥१३-३१-१४॥
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्। सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ॥१३-३१-१५॥
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम्। वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥१३-३१-१६॥
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम्। नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥१३-३१-१७॥
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम। गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ॥१३-३१-१८॥
तत्र तं राजशार्दूलं निवसन्तं महीपतिम्। आगत्य हेहया भूयः पर्यधावन्त भारत ॥१३-३१-१९॥
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः। देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥१३-३१-२०॥
स तु युद्धे महाराज दिनानां दशतीर्दश। हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥१३-३१-२१॥
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः। दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ॥१३-३१-२२॥
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः। जगाम शरणं राजा कृताञ्जलिररिंदम ॥१३-३१-२३॥
राजोवाच॥
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः। अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥१३-३१-२४॥
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि। निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ॥१३-३१-२५॥
तमुवाच महाभागो भरद्वाजः प्रतापवान्। न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥१३-३१-२६॥
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते। वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ॥१३-३१-२७॥
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्। अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ॥१३-३१-२८॥
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश। वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ॥१३-३१-२९॥
योगेन च समाविष्टो भरद्वाजेन धीमता। तेजो लौक्यं स सङ्गृह्य तस्मिन्देशे समाविशत् ॥१३-३१-३०॥
ततः स कवची धन्वी बाणी दीप्त इवानलः। प्रययौ स धनुर्धुन्वन् विवर्षुरिव तोयदः ॥१३-३१-३१॥
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ। मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥१३-३१-३२॥
ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम्। कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ॥१३-३१-३३॥
ततस्तु वैतहव्यानां वधाय स महीपतिः। पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ॥१३-३१-३४॥
सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी। प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः ॥१३-३१-३५॥
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्। निर्ययुर्नगराकारै रथैः पररथारुजैः ॥१३-३१-३६॥
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः। प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ॥१३-३१-३७॥
अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर। अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥१३-३१-३८॥
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः। जघान तान्महातेजा वज्रानलसमैः शरैः ॥१३-३१-३९॥
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः। अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥१३-३१-४०॥
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ। प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥१३-३१-४१॥
ययौ भृगुं च शरणं वीतहव्यो नराधिपः। अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ॥ ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ॥१३-३१-४२॥
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः। स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥१३-३१-४३॥
भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः। द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥१३-३१-४४॥
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा। पूजयामास च ततो विधिना परमेण ह ॥१३-३१-४५॥
उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम्। स चोवाच नृपस्तस्मै यदागमनकारणम् ॥१३-३१-४६॥
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम्। अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ॥ उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ॥१३-३१-४७॥
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया। अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ॥१३-३१-४८॥
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः। नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥१३-३१-४९॥
एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः। पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ॥१३-३१-५०॥
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः। यदेष राजा वीर्येण स्वजातिं त्याजितो मया ॥१३-३१-५१॥
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम्। त्याजितो हि मया जातिमेष राजा भृगूद्वह ॥१३-३१-५२॥
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः। यथागतं महाराज मुक्त्वा विषमिवोरगः ॥१३-३१-५३॥
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः। वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥१३-३१-५४॥
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः। शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥१३-३१-५५॥
ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते। यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ॥१३-३१-५६॥
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत्। पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ॥१३-३१-५७॥
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः। विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ॥१३-३१-५८॥
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः। श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ॥१३-३१-५९॥
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः। प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ॥१३-३१-६०॥
तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः। घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥१३-३१-६१॥
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत। शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥१३-३१-६२॥
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः। भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥१३-३१-६३॥
तथैव कथितो वंशो मया गार्त्समदस्तव। विस्तरेण महाराज किमन्यदनुपृच्छसि ॥१३-३१-६४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.