Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.032
पूज्यपुरुषवर्णनम्
युधिष्ठिर उवाच॥
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ। विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥१३-३२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं वासुदेवस्य चोभयोः ॥१३-३२-२॥
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्। केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥१३-३२-३॥
बहुमानः परः केषु भवतो यान्नमस्यसि। शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ॥१३-३२-४॥
नारद उवाच॥
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन। त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥१३-३२-५॥
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्। स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥१३-३२-६॥
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्। सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥१३-३२-७॥
तपोधनान्वेदविदो नित्यं वेदपरायणान्। महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥१३-३२-८॥
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः। सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥१३-३२-९॥
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः। सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥१३-३२-१०॥
ये ते तपसि वर्तन्ते वने मूलफलाशनाः। असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥१३-३२-११॥
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः। भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥१३-३२-१२॥
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः। याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥१३-३२-१३॥
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः। आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥१३-३२-१४॥
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः। शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥१३-३२-१५॥
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसङ्गराः। वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥१३-३२-१६॥
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः। निःसुखा निर्धना ये च तान्नमस्यामि यादव ॥१३-३२-१७॥
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः। अहिंसानिरता ये च ये च सत्यव्रता नराः ॥ दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥१३-३२-१८॥
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः। कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥१३-३२-१९॥
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते। शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥१३-३२-२०॥
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः। अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥१३-३२-२१॥
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा। व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥१३-३२-२२॥
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च। सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥१३-३२-२३॥
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्। लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ॥१३-३२-२४॥
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा। पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥१३-३२-२५॥
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः। त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥१३-३२-२६॥
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च। नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥१३-३२-२७॥
नित्यं शमपरा ये च तथा ये चानसूयकाः। नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥१३-३२-२८॥
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः। श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥१३-३२-२९॥
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान्। भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥१३-३२-३०॥
अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये। प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥१३-३२-३१॥
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा। यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥१३-३२-३२॥
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन्। सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥१३-३२-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.