Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.034
पृथिवीवासुदेवसंवादः
भीष्म उवाच॥
ब्राह्मणानेव सततं भृशं सम्प्रतिपूजयेत्। एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥१३-३४-१॥
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः। सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ॥ अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥१३-३४-२॥
जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः। महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥१३-३४-३॥
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम्। वासयेत गृहे राजन्न तस्मात्परमस्ति वै ॥१३-३४-४॥
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः। पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥१३-३४-५॥
आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः। सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥१३-३४-६॥
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते। देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥१३-३४-७॥
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा। तथैव देवता राजन्नात्र कार्या विचारणा ॥१३-३४-८॥
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः। न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ॥१३-३४-९॥
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः। तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ॥१३-३४-१०॥
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः। यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥१३-३४-११॥
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च। आगतानागते चोभे ब्राह्मणो द्विपदां वरः ॥ ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ॥१३-३४-१२॥
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्। न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥१३-३४-१३॥
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः। कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥१३-३४-१४॥
क्षत्रियाणां प्रतपतां तेजसा च बलेन च। ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥१३-३४-१५॥
भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन्। भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥१३-३४-१६॥
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः। प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥१३-३४-१७॥
यत्किञ्चित्कथ्यते लोके श्रूयते पश्यतेऽपि वा। सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥१३-३४-१८॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥१३-३४-१९॥
वासुदेव उवाच॥
मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे। केन स्वित्कर्मणा पापं व्यपोहति नरो गृही ॥१३-३४-२०॥
पृथिव्युवाच॥
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्। ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ॥१३-३४-२१॥
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते। अपरेषां परेषां च परेभ्यश्चैव ये परे ॥१३-३४-२२॥
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते। अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ॥१३-३४-२३॥
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति। तथा दुश्चरितं कर्म पराभावाय कल्पते ॥१३-३४-२४॥
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम्। तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ॥१३-३४-२५॥
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ। शतक्रतुः समभवत्पश्य माधव यादृशम् ॥१३-३४-२६॥
इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन। ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥१३-३४-२७॥
इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः। साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ॥१३-३४-२८॥
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्। सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥१३-३४-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.