13.035
भीष्म उवाच॥
जन्मनैव महाभागो ब्राह्मणो नाम जायते। नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥१३-३५-१॥
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः। गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥१३-३५-२॥
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः। गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ॥१३-३५-३॥
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः। सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥१३-३५-४॥
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि। गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥१३-३५-५॥
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति। प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ॥१३-३५-६॥
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता। शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥१३-३५-७॥
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी। स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥१३-३५-८॥
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः। अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ॥१३-३५-९॥
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया। दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥१३-३५-१०॥
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन। सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥१३-३५-११॥
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ। विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥१३-३५-१२॥
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः। दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥१३-३५-१३॥
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे। वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ॥१३-३५-१४॥
कर्पासमृदवः केचित्तथान्ये मकरस्पृशः। विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ॥१३-३५-१५॥
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे। विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥१३-३५-१६॥
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा। शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥१३-३५-१७॥
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः। वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥१३-३५-१८॥
ब्राह्मणानां परिभवादसुराः सलिलेशयाः। ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥१३-३५-१९॥
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः। अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ॥१३-३५-२०॥
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा। ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥१३-३५-२१॥
तान्पूजयस्व सततं दानेन परिचर्यया। यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥१३-३५-२२॥
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ। प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ॥१३-३५-२३॥