13.036
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ॥१३-३६-१॥
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः। विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥१३-३६-२॥
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि। श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ॥१३-३६-३॥
शम्बर उवाच॥
नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम्। शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥१३-३६-४॥
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्। अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ॥१३-३६-५॥
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा। प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥१३-३६-६॥
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्। समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥१३-३६-७॥
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया। समाधिमात्मनो नित्यमनुलोममचिन्तयन् ॥१३-३६-८॥
सोऽहं वागग्रसृष्टानां रसानामवलेहकः। स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥१३-३६-९॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्। यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥१३-३६-१०॥
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा। युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ॥१३-३६-११॥
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्। पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ॥१३-३६-१२॥
सोम उवाच॥
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा। भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ॥१३-३६-१३॥
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन्। निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ॥१३-३६-१४॥
अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे। श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ॥१३-३६-१५॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव। राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१३-३६-१६॥
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥१३-३६-१७॥
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्। ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥१३-३६-१८॥
भीष्म उवाच॥
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्। द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च ॥१३-३६-१९॥