13.037
पात्रपरीक्षा
युधिष्ठिर उवाच॥
अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम्। दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ॥१३-३७-१॥
भीष्म उवाच॥
क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम्। यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत ॥१३-३७-२॥
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम। पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥१३-३७-३॥
अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम्। दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥१३-३७-४॥
युधिष्ठिर उवाच॥
अपीडया च भृत्यानां धर्मस्याहिंसया तथा। पात्रं विद्याम तत्त्वेन यस्मै दत्तं न सन्तपेत् ॥१३-३७-५॥
भीष्म उवाच॥
ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः। सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥१३-३७-६॥
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्। तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ॥१३-३७-७॥
अक्रोधः सत्यवचनमहिंसा दम आर्जवम्। अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ॥१३-३७-८॥
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत। भावतो विनिविष्टानि तत्पात्रं मानमर्हति ॥१३-३७-९॥
तथा चिरोषितं चापि सम्प्रत्यागतमेव च। अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥१३-३७-१०॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्। सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥१३-३७-११॥
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः। आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥१३-३७-१२॥
हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः। आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥१३-३७-१३॥
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि। बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ॥१३-३७-१४॥
यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते। एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ॥ अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ॥१३-३७-१५॥
श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः। अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ॥१३-३७-१६॥
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च। एवं नरो वर्तमानः शाश्वतीरेधते समाः ॥१३-३७-१७॥
ऋणमुन्मुच्य देवानामृषीणां च तथैव च। पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥१३-३७-१८॥
पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा। एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥१३-३७-१९॥