Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.040
विपुलोपाख्यानम्
भीष्म उवाच॥
एवमेतन्महाबाहो नात्र मिथ्यास्ति किञ्चन। यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥१३-४०-१॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥१३-४०-२॥
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ। यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥१३-४०-३॥
न हि स्त्रीभ्य परं पुत्र पापीयः किञ्चिदस्ति वै। अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ॥ क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥१३-४०-४॥
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम्। स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥१३-४०-५॥
अथाभ्यगच्छन्देवास्ते पितामहमरिंदम। निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥१३-४०-६॥
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः। मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥१३-४०-७॥
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्। असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥१३-४०-८॥
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः। ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥१३-४०-९॥
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः। असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥१३-४०-१०॥
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः। निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥१३-४०-११॥
शय्यासनमलङ्कारमन्नपानमनार्यताम्। दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥१३-४०-१२॥
न तासां रक्षणं कर्तुं शक्यं पुंसा कथञ्चन। अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥१३-४०-१३॥
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा। न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥१३-४०-१४॥
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्। यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥१३-४०-१५॥
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः। तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥१३-४०-१६॥
तस्य रूपेण संमत्ता देवगन्धर्वदानवाः। विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥१३-४०-१७॥
नारीणां चरितज्ञश्च देवशर्मा महामुनिः। यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥१३-४०-१८॥
पुरंदरं च जानीते परस्त्रीकामचारिणम्। तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥१३-४०-१९॥
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा। भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥१३-४०-२०॥
रक्षाविधानं मनसा स विचिन्त्य महातपाः। आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥१३-४०-२१॥
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः। पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥१३-४०-२२॥
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्। स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥१३-४०-२३॥
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः। सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥१३-४०-२४॥
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत। पुनश्चेदं महाराज पप्रच्छ प्रथितं गुरुम् ॥१३-४०-२५॥
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने। वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥१३-४०-२६॥
ततः स भगवांस्तस्मै विपुलाय महात्मने। आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥१३-४०-२७॥
बहुमायः स विप्रर्षे बलहा पाकशासनः। तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥१३-४०-२८॥
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः। भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥१३-४०-२९॥
शिखी जटी चीरवासाः पुनर्भवति पुत्रक। बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥१३-४०-३०॥
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः। विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥१३-४०-३१॥
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च। ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥ प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥१३-४०-३२॥
शुकवायसरूपी च हंसकोकिलरूपवान्। सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥१३-४०-३३॥
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च। सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥१३-४०-३४॥
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः। मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥१३-४०-३५॥
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्। अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥१३-४०-३६॥
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा। वायुभूतश्च स पुनर्देवराजो भवत्युत ॥१३-४०-३७॥
एवं रूपाणि सततं कुरुते पाकशासनः। तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥१३-४०-३८॥
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम। क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥१३-४०-३९॥
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा। देवशर्मा महाभागस्ततो भरतसत्तम ॥१३-४०-४०॥
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत्। रक्षां च परमां चक्रे देवराजान्महाबलात् ॥१३-४०-४१॥
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे। मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥१३-४०-४२॥
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः। उटजं वा तथा ह्यस्य नानाविधसरूपता ॥१३-४०-४३॥
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्। तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै ॥१३-४०-४४॥
अथ वा पौरुषेणेयमशक्या रक्षितुं मया। बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ॥१३-४०-४५॥
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्। गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम् ॥१३-४०-४६॥
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः। शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥१३-४०-४७॥
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः। मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥१३-४०-४८॥
अवश्यकरणीयं हि गुरोरिह हि शासनम्। यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥१३-४०-४९॥
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम्। निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥१३-४०-५०॥
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि। तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥१३-४०-५१॥
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः। एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥१३-४०-५२॥
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः। तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥१३-४०-५३॥
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः। आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥१३-४०-५४॥
गुरुपत्नीमुपासीनो विपुलः स महातपाः। उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ॥१३-४०-५५॥
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः। विवेश विपुलः कायमाकाशं पवनो यथा ॥१३-४०-५६॥
लक्षणं लक्षणेनैव वदनं वदनेन च। अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥१३-४०-५७॥
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्। उवास रक्षणे युक्तो न च सा तमबुध्यत ॥१३-४०-५८॥
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः। क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥१३-४०-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.