Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.041
भीष्म उवाच॥
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः। इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥१३-४१-१॥
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप। दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥१३-४१-२॥
स ददर्श तमासीनं विपुलस्य कलेवरम्। निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥१३-४१-३॥
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम्। पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥१३-४१-४॥
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह। रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥१३-४१-५॥
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा। निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥१३-४१-६॥
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना। त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥१३-४१-७॥
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पोद्भवेन वै। तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥१३-४१-८॥
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः। गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥१३-४१-९॥
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता। वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥१३-४१-१०॥
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः। निजग्राह महातेजा योगेन बलवत्प्रभो ॥ बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥१३-४१-११॥
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः। उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥१३-४१-१२॥
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च। स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥१३-४१-१३॥
भोः किमागमने कृत्यमिति तस्याश्च निःसृता। वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥१३-४१-१४॥
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा। पुरंदरश्च सन्त्रस्तो बभूव विमनास्तदा ॥१३-४१-१५॥
स तद्वैकृतमालक्ष्य देवराजो विशां पते। अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥१३-४१-१६॥
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम्। प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥१३-४१-१७॥
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः। प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो ॥१३-४१-१८॥
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः। स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥१३-४१-१९॥
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर। न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥१३-४१-२०॥
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम्। गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥१३-४१-२१॥
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्। मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥१३-४१-२२॥
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा। कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥१३-४१-२३॥
स च घोरतपा धीमान्गुरुर्मे पापचेतसम्। दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥१३-४१-२४॥
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः। मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥१३-४१-२५॥
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे। मावमंस्था न तपसामसाध्यं नाम किञ्चन ॥१३-४१-२६॥
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः। अकिञ्चिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ॥१३-४१-२७॥
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः। कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥१३-४१-२८॥
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत्। रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥१३-४१-२९॥
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः। विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥१३-४१-३०॥
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया। निवेदयामास तदा विपुलः शक्रकर्म तत् ॥१३-४१-३१॥
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान्। बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥१३-४१-३२॥
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः। धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥१३-४१-३३॥
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम्। वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ॥ अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥१३-४१-३४॥
तथैव देवशर्मापि सभार्यः स महातपाः। निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥१३-४१-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.