Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.043
भीष्म उवाच॥
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्। देवशर्मा महातेजा यत्तच्छृणु नराधिप ॥१३-४३-१॥
देवशर्मोवाच॥
किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने। ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ॥१३-४३-२॥
विपुल उवाच॥
ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो। ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ॥१३-४३-३॥
देवशर्मोवाच॥
यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत्। चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥१३-४३-४॥
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्। ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥१३-४३-५॥
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्। नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥१३-४३-६॥
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा। पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥१३-४३-७॥
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्। स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥१३-४३-८॥
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः। पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥१३-४३-९॥
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्। नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥१३-४३-१०॥
ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा। कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥१३-४३-११॥
तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज। न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते ॥१३-४३-१२॥
यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम। शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥१३-४३-१३॥
सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः। अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ॥१३-४३-१४॥
रक्षिता सा त्वया पुत्र मम चापि निवेदिता। अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ॥१३-४३-१५॥
भीष्म उवाच॥
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः। मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥१३-४३-१६॥
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः। मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥१३-४३-१७॥
तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च। उभयं दृश्यते तासु सततं साध्वसाधु च ॥१३-४३-१८॥
स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः। धारयन्ति महीं राजन्निमां सवनकाननाम् ॥१३-४३-१९॥
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः। विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥१३-४३-२०॥
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः। अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥१३-४३-२१॥
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः। नासामस्ति प्रियो नाम मैथुने सङ्गमे नृभिः ॥१३-४३-२२॥
एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ। न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ॥१३-४३-२३॥
नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर। खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥१३-४३-२४॥
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन। सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥१३-४३-२५॥
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः। नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ॥१३-४३-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.