Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.044
विवाहधर्माः
युधिष्ठिर उवाच॥
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च। पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥१३-४४-१॥
भीष्म उवाच॥
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः। कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥१३-४४-२॥
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च। अद्भिरेव प्रदातव्या कन्या गुणवते वरे ॥ ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥१३-४४-३॥
आवाह्यमावहेदेवं यो दद्यादनुकूलतः। शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥१३-४४-४॥
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः। अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ॥ गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥१३-४४-५॥
धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान्। असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥१३-४४-६॥
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्। प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥१३-४४-७॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर। पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ॥१३-४४-८॥
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ। पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥१३-४४-९॥
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु। वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥१३-४४-१०॥
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु। रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥१३-४४-११॥
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः। शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥१३-४४-१२॥
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्। एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥१३-४४-१३॥
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ। नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥१३-४४-१४॥
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती। चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥१३-४४-१५॥
प्रजनो हीयते तस्या रतिश्च भरतर्षभ। अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥१३-४४-१६॥
असपिण्डा च या मातुरसगोत्रा च या पितुः। इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥१३-४४-१७॥
युधिष्ठिर उवाच॥
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः। बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥१३-४४-१८॥
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह। तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥१३-४४-१९॥
भीष्म उवाच॥
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रकृष्यते। मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥१३-४४-२०॥
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च। मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥१३-४४-२१॥
न ह्यकामेन संवादं मनुरेवं प्रशंसति। अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥१३-४४-२२॥
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते। धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥१३-४४-२३॥
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत्। तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥१३-४४-२४॥
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः। तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥१३-४४-२५॥
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्। सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥१३-४४-२६॥
युधिष्ठिर उवाच॥
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः। धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥१३-४४-२७॥
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत्। अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥१३-४४-२८॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्। तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥१३-४४-२९॥
भीष्म उवाच॥
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम्। न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥१३-४४-३०॥
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः। अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ॥१३-४४-३१॥
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः। प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥१३-४४-३२॥
दास्यामि भवते कन्यामिति पूर्वं नभाषितम्। ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥१३-४४-३३॥
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम्। कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥१३-४४-३४॥
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्। तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥१३-४४-३५॥
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः। यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥१३-४४-३६॥
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम्। जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ॥ गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥१३-४४-३७॥
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता। अब्रवीदितरां कन्यामावहत्स तु कौरवः ॥१३-४४-३८॥
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः। अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥१३-४४-३९॥
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः। आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥१३-४४-४०॥
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः। पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥१३-४४-४१॥
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा। लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥१३-४४-४२॥
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्। येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥१३-४४-४३॥
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः। ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥१३-४४-४४॥
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा। न ह्येव भार्या क्रेतव्या न विक्रेया कथञ्चन ॥१३-४४-४५॥
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः। भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥१३-४४-४६॥
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः। कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥१३-४४-४७॥
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः। तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ॥ तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥१३-४४-४८॥
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्। यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ॥ कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥१३-४४-४९॥
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः। तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥१३-४४-५०॥
लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि। इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥१३-४४-५१॥
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते। सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥१३-४४-५२॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे। पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥१३-४४-५३॥
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्। परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥१३-४४-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.