13.047
रिक्थविभागः
युधिष्ठिर उवाच॥
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम। अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥१३-४७-१॥
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह। अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥१३-४७-२॥
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः। एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥१३-४७-३॥
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह। ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥१३-४७-४॥
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम। आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥१३-४७-५॥
केन वा किं ततो हार्यं पितृवित्तात्पितामह। एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ॥१३-४७-६॥
भीष्म उवाच॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥१३-४७-७॥
वैषम्यादथ वा लोभात्कामाद्वापि परन्तप। ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥१३-४७-८॥
शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत्। प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ॥१३-४७-९॥
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर। अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ॥१३-४७-१०॥
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत्। ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥१३-४७-११॥
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर। तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ॥१३-४७-१२॥
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः। स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥१३-४७-१३॥
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि। द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥१३-४७-१४॥
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः। अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥१३-४७-१५॥
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः। सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥१३-४७-१६॥
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्। त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥१३-४७-१७॥
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते। हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥१३-४७-१८॥
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति। अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥१३-४७-१९॥
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते। यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥१३-४७-२०॥
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत्। नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥१३-४७-२१॥
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु। यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥१३-४७-२२॥
त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै। तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ॥१३-४७-२३॥
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्। नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन ॥१३-४७-२४॥
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर। ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ॥ सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥१३-४७-२५॥
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ। एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥१३-४७-२६॥
युधिष्ठिर उवाच॥
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः। केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥१३-४७-२७॥
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥१३-४७-२८॥
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम। यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥१३-४७-२९॥
भीष्म उवाच॥
दारा इत्युच्यते लोके नाम्नैकेन परन्तप। प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ॥१३-४७-३०॥
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्। सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥१३-४७-३१॥
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्। हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥१३-४७-३२॥
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति। ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ॥१३-४७-३३॥
अन्नं पानं च माल्यं च वासांस्याभरणानि च। ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ॥१३-४७-३४॥
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन। तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥१३-४७-३५॥
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर। यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥१३-४७-३६॥
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्। राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥१३-४७-३७॥
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्। ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम॥ भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ॥१३-४७-३८॥
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्। क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥१३-४७-३९॥
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर। विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥१३-४७-४०॥
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्। राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥१३-४७-४१॥
ब्राह्मणा हि महाभागा देवानामपि देवताः। तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥१३-४७-४२॥
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्। लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥१३-४७-४३॥
दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः। सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥१३-४७-४४॥
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः। भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥१३-४७-४५॥
युधिष्ठिर उवाच॥
उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह। इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥१३-४७-४६॥
भीष्म उवाच॥
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन। तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥१३-४७-४७॥
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर। अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ॥१३-४७-४८॥
क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात्। युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ॥१३-४७-४९॥
वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम्। सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥१३-४७-५०॥
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन। द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥१३-४७-५१॥
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ। शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ॥१३-४७-५२॥
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ। तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥१३-४७-५३॥
वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्। पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥१३-४७-५४॥
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति। त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥१३-४७-५५॥
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन। शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥१३-४७-५६॥
जातानां समवर्णासु पुत्राणामविशेषतः। सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥१३-४७-५७॥
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः। एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा ॥१३-४७-५८॥
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप। विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ॥१३-४७-५९॥
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि। मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥१३-४७-६०॥
एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः। महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥१३-४७-६१॥