Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.048
वर्णसंकरः
युधिष्ठिर उवाच॥
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात्। अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ॥१३-४८-१॥
तेषामेतेन विधिना जातानां वर्णसङ्करे। को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥१३-४८-२॥
भीष्म उवाच॥
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्। असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥१३-४८-३॥
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते। आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥१३-४८-४॥
परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः। शुश्रूषकः स्वस्य कुलस्य स स्या; त्स्वं चारित्रं नित्यमथो न जह्यात् ॥१३-४८-५॥
सर्वानुपायानपि सम्प्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम्। ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् ॥१३-४८-६॥
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्मास्य जायते। हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥१३-४८-७॥
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते। शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥१३-४८-८॥
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः। बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥१३-४८-९॥
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम्। वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥१३-४८-१०॥
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्। ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः ॥ एते मतिमतां श्रेष्ठ वर्णसङ्करजाः प्रभो ॥१३-४८-११॥
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः। शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥१३-४८-१२॥
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः। ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥१३-४८-१३॥
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु। मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥१३-४८-१४॥
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते। आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥१३-४८-१५॥
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु। परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥१३-४८-१६॥
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते। एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥१३-४८-१७॥
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः। हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥१३-४८-१८॥
अगम्यागमनाच्चैव वर्तते वर्णसङ्करः। व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ॥ प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥१३-४८-१९॥
अतश्चायोगवं सूते वागुरावनजीवनम्। मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥१३-४८-२०॥
निषादो मुद्गरं सूते दाशं नावोपजीविनम्। मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥१३-४८-२१॥
चतुरो मागधी सूते क्रूरान्मायोपजीविनः। मांसस्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम् ॥१३-४८-२२॥
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम्। निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥१३-४८-२३॥
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम्। मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥१३-४८-२४॥
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः। क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥१३-४८-२५॥
कारावरो निषाद्यां तु चर्मकारात्प्रजायते। चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥१३-४८-२६॥
आहिण्डिको निषादेन वैदेह्यां सम्प्रजायते। चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥१३-४८-२७॥
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम्। श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥१३-४८-२८॥
इत्येताः सङ्करे जात्यः पितृमातृव्यतिक्रमात्। प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥१३-४८-२९॥
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते। वर्णानां धर्महीनेषु सञ्ज्ञा नास्तीह कस्यचित् ॥१३-४८-३०॥
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः। बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥१३-४८-३१॥
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन्। युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च ॥१३-४८-३२॥
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः। आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥१३-४८-३३॥
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम्। मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥१३-४८-३४॥
यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान्। विहीनयोनिर्हि सुतोऽवसादये; त्तितीर्षमाणं सलिले यथोपलम् ॥१३-४८-३५॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः। नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥१३-४८-३६॥
स्वभावश्चैव नारीणां नराणामिह दूषणम्। इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥१३-४८-३७॥
युधिष्ठिर उवाच॥
वर्णापेतमविज्ञातं नरं कलुषयोनिजम्। आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥१३-४८-३८॥
भीष्म उवाच॥
योनिसङ्कलुषे जातं नानाचारसमाहितम्। कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥१३-४८-३९॥
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता। पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥१३-४८-४०॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्। न कथञ्चन सङ्कीर्णः प्रकृतिं स्वां नियच्छति ॥१३-४८-४१॥
यथैव सदृशो रूपे मातापित्रोर्हि जायते। व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥१३-४८-४२॥
कुलस्रोतसि सञ्छन्ने यस्य स्याद्योनिसङ्करः। संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥१३-४८-४३॥
आर्यरूपसमाचारं चरन्तं कृतके पथि। स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥१३-४८-४४॥
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च। जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥१३-४८-४५॥
शरीरमिह सत्त्वेन नरस्य परिकृष्यते। ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥१३-४८-४६॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्। अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥१३-४८-४७॥
आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः। प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः ॥१३-४८-४८॥
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च। यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥१३-४८-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.