13.049
पुत्रप्रणिधिः
युधिष्ठिर उवाच॥
ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक्। कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥१३-४९-१॥
विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः। अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥१३-४९-२॥
भीष्म उवाच॥
आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः। नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥१३-४९-३॥
पतितस्य च भार्यायां भर्त्रा सुसमवेतया। तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥१३-४९-४॥
षडपध्वंसजाश्चापि कानीनापसदास्तथा। इत्येते ते समाख्यातास्तान्विजानीहि भारत ॥१३-४९-५॥
युधिष्ठिर उवाच॥
षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा। एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥१३-४९-६॥
भीष्म उवाच॥
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर। वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥१३-४९-७॥
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः। षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥१३-४९-८॥
चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च। वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥१३-४९-९॥
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ। ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥१३-४९-१०॥
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः। पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥१३-४९-११॥
युधिष्ठिर उवाच॥
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्। तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥१३-४९-१२॥
भीष्म उवाच॥
रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्। अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥१३-४९-१३॥
युधिष्ठिर उवाच॥
रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम्। अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥१३-४९-१४॥
भीष्म उवाच॥
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे। न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥१३-४९-१५॥
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते। तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥१३-४९-१६॥
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ। न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥१३-४९-१७॥
कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते। न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥१३-४९-१८॥
युधिष्ठिर उवाच॥
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते। शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥१३-४९-१९॥
भीष्म उवाच॥
मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षयेत्। न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥१३-४९-२०॥
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षयेत्। सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥१३-४९-२१॥
युधिष्ठिर उवाच॥
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्। देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥१३-४९-२२॥
भीष्म उवाच॥
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा। त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते। तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥१३-४९-२४॥
अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर। संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥१३-४९-२५॥
कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ। तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥१३-४९-२६॥
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ। आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ॥१३-४९-२७॥
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥१३-४९-२८॥