13.050
च्यवनोपाख्यानम्
युधिष्ठिर उवाच॥
दर्शने कीदृशः स्नेहः संवासे च पितामह। महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥१३-५०-१॥
भीष्म उवाच॥
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते। नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥१३-५०-२॥
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ। उदवासकृतारम्भो बभूव सुमहाव्रतः ॥१३-५०-३॥
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च। वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥१३-५०-४॥
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम्। जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥१३-५०-५॥
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च। गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥१३-५०-६॥
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्। प्रतिजग्राह शिरसा वातवेगसमं जवे ॥१३-५०-७॥
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः। प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥१३-५०-८॥
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः। ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥१३-५०-९॥
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः। उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ॥ तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥१३-५०-१०॥
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः। तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥१३-५०-११॥
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः। व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ॥ अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥१३-५०-१२॥
जालं च योजयामासुर्विशेषेण जनाधिप। मत्स्योदकं समासाद्य तदा भरतसत्तम ॥१३-५०-१३॥
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः। गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥१३-५०-१४॥
जालं सुविततं तेषां नवसूत्रकृतं तथा। विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥१३-५०-१५॥
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्। प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥१३-५०-१६॥
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः। बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥१३-५०-१७॥
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्। आकर्षन्त महाराज जालेनाथ यदृच्छया ॥१३-५०-१८॥
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्। लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ॥१३-५०-१९॥
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्। सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥१३-५०-२०॥
परिखेदपरित्रासाज्जालस्याकर्षणेन च। मत्स्या बभूवुर्व्यापन्नाः स्थलसङ्कर्षणेन च ॥१३-५०-२१॥
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्। बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥१३-५०-२२॥
निषादा ऊचुः॥
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु। करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥१३-५०-२३॥
भीष्म उवाच॥
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्। यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥१३-५०-२४॥
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह। संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥१३-५०-२५॥
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः। सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥१३-५०-२६॥