Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.051
च्यवननहुषसंवादः
भीष्म उवाच॥
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम्। त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥१३-५१-१॥
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः। आत्मानमाचचक्षे च च्यवनाय महात्मने ॥१३-५१-२॥
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः। सत्यव्रतं महाभागं देवकल्पं विशां पते ॥१३-५१-३॥
नहुष उवाच॥
करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि। सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥१३-५१-४॥
च्यवन उवाच॥
श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः। मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥१३-५१-५॥
नहुष उवाच॥
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित। निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः ॥१३-५१-६॥
च्यवन उवाच॥
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप। सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥१३-५१-७॥
नहुष उवाच॥
सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम्। स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ॥१३-५१-८॥
च्यवन उवाच॥
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ। दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥१३-५१-९॥
नहुष उवाच॥
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित। यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ॥१३-५१-१०॥
च्यवन उवाच॥
राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते। सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥१३-५१-११॥
नहुष उवाच॥
अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम्। एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ॥१३-५१-१२॥
च्यवन उवाच॥
अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव। सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥१३-५१-१३॥
भीष्म उवाच॥
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः। स चिन्तयामास तदा सहामात्यपुरोहितः ॥१३-५१-१४॥
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः। नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥१३-५१-१५॥
स समाभाष्य राजानमब्रवीद्द्विजसत्तमः। तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ॥१३-५१-१६॥
नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा। भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥१३-५१-१७॥
नहुष उवाच॥
ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः। परित्रायस्व मामस्माद्विषयं च कुलं च मे ॥१३-५१-१८॥
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्। किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥१३-५१-१९॥
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः। प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥१३-५१-२०॥
भीष्म उवाच॥
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्। उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥१३-५१-२१॥
अनर्घेया महाराज द्विजा वर्णमहत्तमाः। गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् ॥१३-५१-२२॥
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप। हर्षेण महता युक्तः सहामात्यपुरोहितः ॥१३-५१-२३॥
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्। इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥१३-५१-२४॥
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव। एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥१३-५१-२५॥
च्यवन उवाच॥
उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ। गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥१३-५१-२६॥
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव। गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥१३-५१-२७॥
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते। अन्नमेव सदा गावो देवानां परमं हविः ॥१३-५१-२८॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ। गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥१३-५१-२९॥
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च। अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥१३-५१-३०॥
तेजसा वपुषा चैव गावो वह्निसमा भुवि। गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥१३-५१-३१॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्। विराजयति तं देशं पाप्मानं चापकर्षति ॥१३-५१-३२॥
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः। गावः कामदुघा देव्यो नान्यत्किञ्चित्परं स्मृतम् ॥१३-५१-३३॥
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ। गुणैकदेशवचनं शक्यं पारायणं न तु ॥१३-५१-३४॥
निषादा ऊचुः॥
दर्शनं कथनं चैव सहास्माभिः कृतं मुने। सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ॥१३-५१-३५॥
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः। एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥१३-५१-३६॥
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम्। अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥१३-५१-३७॥
च्यवन उवाच॥
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च। नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥१३-५१-३८॥
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः। दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥१३-५१-३९॥
भीष्म उवाच॥
ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः। निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥१३-५१-४०॥
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्। आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥१३-५१-४१॥
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः। वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥१३-५१-४२॥
ततो राजा महावीर्यो नहुषः पृथिवीपतिः। परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥१३-५१-४३॥
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः। तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥१३-५१-४४॥
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम्। गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥१३-५१-४५॥
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप। नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ॥१३-५१-४६॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि। दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ॥१३-५१-४७॥
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम्। किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥१३-५१-४८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.