Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.052
च्यवनकुशिकसंवादः
युधिष्ठिर उवाच॥
संशयो मे महाप्राज्ञ सुमहान्सागरोपमः। तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ॥१३-५२-१॥
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो। रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥१३-५२-२॥
कथमेष समुत्पन्नो रामः सत्यपराक्रमः। कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥१३-५२-३॥
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय। कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥१३-५२-४॥
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः। रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥१३-५२-५॥
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्। एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥१३-५२-६॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। च्यवनस्य च संवादं कुशिकस्य च भारत ॥१३-५२-७॥
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा। आगामिनं महाबुद्धिः स्ववंशे मुनिपुङ्गवः ॥१३-५२-८॥
सञ्चिन्त्य मनसा सर्वं गुणदोषबलाबलम्। दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥१३-५२-९॥
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्। वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥१३-५२-१०॥
कुशिक उवाच॥
भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते। प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥१३-५२-११॥
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन। तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥१३-५२-१२॥
भीष्म उवाच॥
अथासनमुपादाय च्यवनस्य महामुनेः। कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥१३-५२-१३॥
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्। कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥१३-५२-१४॥
ततः स राजा च्यवनं मधुपर्कं यथाविधि। प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥१३-५२-१५॥
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत्। भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥१३-५२-१६॥
यदि राज्यं यदि धनं यदि गाः संशितव्रत। यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥१३-५२-१७॥
इदं गृहमिदं राज्यमिदं धर्मासनं च ते। राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ॥१३-५२-१८॥
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा। कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥१३-५२-१९॥
न राज्यं कामये राजन्न धनं न च योषितः। न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ॥१३-५२-२०॥
नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते। परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥१३-५२-२१॥
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः। प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥१३-५२-२२॥
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्। गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ॥१३-५२-२३॥
इयं शय्या भगवतो यथाकाममिहोष्यताम्। प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥१३-५२-२४॥
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा। अथर्षिश्चोदयामास पानमन्नं तथैव च ॥१३-५२-२५॥
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा। किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥१३-५२-२६॥
ततः स परया प्रीत्या प्रत्युवाच जनाधिपम्। औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥१३-५२-२७॥
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः। यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ॥१३-५२-२८॥
ततः स भगवान्भुक्त्वा दम्पती प्राह धर्मवित्। स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥१३-५२-२९॥
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः। संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥१३-५२-३०॥
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः। संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥१३-५२-३१॥
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित्। न प्रबोधयतां तं च तौ तदा रजनीक्षये ॥१३-५२-३२॥
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा। बभूवतुर्महाराज प्रयतावथ दम्पती ॥१३-५२-३३॥
ततः स भगवान्विप्रः समादिश्य नराधिपम्। सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥१३-५२-३४॥
स तु राजा निराहारः सभार्यः कुरुनन्दन। पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥१३-५२-३५॥
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः। अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥१३-५२-३६॥
तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ। भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ॥१३-५२-३७॥
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः। अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ॥१३-५२-३८॥
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः। पुनरन्वेषणे यत्नमकरोत्परमं तदा ॥१३-५२-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.