13.053
युधिष्ठिर उवाच॥
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा। भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥१३-५३-१॥
भीष्म उवाच॥
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया। परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥१३-५३-२॥
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन। तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥१३-५३-३॥
अथ शून्येन मनसा प्रविवेश गृहं नृपः। ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥१३-५३-४॥
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च। दर्शनात्तस्य च मुनेर्विश्रान्तौ सम्बभूवतुः ॥१३-५३-५॥
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः। अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥१३-५३-६॥
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान्। न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥१३-५३-७॥
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते। तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥१३-५३-८॥
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ। शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥१३-५३-९॥
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः। न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥१३-५३-१०॥
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः। तत उत्थाय सहसा स्नानशालां विवेश ह ॥ कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥१३-५३-११॥
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत। स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ॥ नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥१३-५३-१२॥
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः। दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥१३-५३-१३॥
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्। सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥१३-५३-१४॥
आनीयतामिति मुनिस्तं चोवाच नराधिपम्। राजा च समुपाजह्रे तदन्नं सह भार्यया ॥१३-५३-१५॥
मांसप्रकारान्विविधाञ्शाकानि विविधानि च। वेसवारविकारांश्च पानकानि लघूनि च ॥१३-५३-१६॥
रसालापूपकांश्चित्रान्मोदकानथ षाडवान्। रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥१३-५३-१७॥
फलानि च विचित्राणि तथा भोज्यानि भूरिशः। बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥१३-५३-१८॥
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्। सर्वमाहारयामास राजा शापभयान्मुनेः ॥१३-५३-१९॥
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्। ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥१३-५३-२०॥
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह। सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥१३-५३-२१॥
न च तौ चक्रतुः कोपं दम्पती सुमहाव्रतौ। तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥१३-५३-२२॥
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा। सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥१३-५३-२३॥
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि। शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥१३-५३-२४॥
वस्त्रं च विविधाकारमभवत्समुपार्जितम्। न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥१३-५३-२५॥
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्। सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥१३-५३-२६॥
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्। क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः ॥१३-५३-२७॥
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः। च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ॥१३-५३-२८॥
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः। सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥१३-५३-२९॥
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः। गदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥१३-५३-३०॥
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्। भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥१३-५३-३१॥
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्। सर्वमेतत्ततो दत्वा नृपो वाक्यमथाब्रवीत् ॥१३-५३-३२॥
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः। यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥१३-५३-३३॥
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्। इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥१३-५३-३४॥
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ। सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥१३-५३-३५॥
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु। ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥१३-५३-३६॥
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि। क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥१३-५३-३७॥
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत्। यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥१३-५३-३८॥
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्। कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥१३-५३-३९॥
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः। हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥१३-५३-४०॥
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ। पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥१३-५३-४१॥
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ। कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् ॥१३-५३-४२॥
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्। ददृशाते महाराज पुष्पिताविव किंशुकौ ॥१३-५३-४३॥
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः। अभिशापभयात्त्रस्तो न च किञ्चिदुवाच ह ॥१३-५३-४४॥
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्। क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥१३-५३-४५॥
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः। राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥१३-५३-४६॥
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः। न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥१३-५३-४७॥
भीष्म उवाच॥
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः। वसु विश्राणयामास यथा वैश्रवणस्तथा ॥१३-५३-४८॥
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत्। ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥१३-५३-४९॥
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह। विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥१३-५३-५०॥
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया। ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥१३-५३-५१॥
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः। पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥१३-५३-५२॥
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह। विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥१३-५३-५३॥
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा। न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥१३-५३-५४॥
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्। कञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥१३-५३-५५॥
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि। इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥१३-५३-५६॥
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम्। यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं सम्भविष्यति ॥१३-५३-५७॥
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना। प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥१३-५३-५८॥
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया। संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥१३-५३-५९॥
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया। तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥१३-५३-६०॥
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम्। श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥१३-५३-६१॥
तव प्रसादात्संवृत्तमिदं सर्वं महामुने। नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥१३-५३-६२॥
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा। आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥१३-५३-६३॥
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्। प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥१३-५३-६४॥
तत एनमुपाजग्मुरमात्याः सपुरोहिताः। बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥१३-५३-६५॥
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्। प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥१३-५३-६६॥
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः। भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥१३-५३-६७॥
ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ। ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया ॥१३-५३-६८॥
स चाप्यृषिर्भृगुकुलकीर्तिवर्धन; स्तपोधनो वनमभिराममृद्धिमत्। मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि ॥१३-५३-६९॥