Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.069
नृगोपाख्यानम्
भीष्म उवाच॥
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने। नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥१३-६९-१॥
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः। अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥१३-६९-२॥
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः। श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥१३-६९-३॥
ददृशुस्ते महाकायं कृकलासमवस्थितम्। तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥१३-६९-४॥
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्। नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥१३-६९-५॥
खमावृत्योदपानस्य कृकलासः स्थितो महान्। तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥१३-६९-६॥
स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा। नृगस्तदात्मानमथो न्यवेदय; त्पुरातनं यज्ञसहस्रयाजिनम् ॥१३-६९-७॥
तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम्। कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥१३-६९-८॥
शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि। त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव ॥१३-६९-९॥
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः। प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥१३-६९-१०॥
गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम। सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥१३-६९-११॥
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः। ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥१३-६९-१२॥
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ। भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥१३-६९-१३॥
शतेन शतसङ्ख्येन गवां विनिमयेन वै। याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥१३-६९-१४॥
देशकालोपसम्पन्ना दोग्ध्री क्षान्तातिवत्सला। स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥१३-६९-१५॥
कृशं च भरते या गौर्मम पुत्रमपस्तनम्। न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥१३-६९-१६॥
ततस्तमपरं विप्रं याचे विनिमयेन वै। गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥१३-६९-१७॥
ब्राह्मण उवाच॥
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे। सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥१३-६९-१८॥
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा। न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥१३-६९-१९॥
एतस्मिन्नेव काले तु चोदितः कालधर्मणा। पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥१३-६९-२०॥
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्। नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ॥१३-६९-२१॥
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया। चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥१३-६९-२२॥
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव। ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥१३-६९-२३॥
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो। धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥१३-६९-२४॥
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः। वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥१३-६९-२५॥
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते। प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥१३-६९-२६॥
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह। तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥१३-६९-२७॥
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्। अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥१३-६९-२८॥
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्। विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥१३-६९-२९॥
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम। वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥१३-६९-३०॥
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता। ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥१३-६९-३१॥
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते। विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥१३-६९-३२॥
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः। अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥१३-६९-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.