13.070
नाचिकेतोपाख्यानम्
युधिष्ठिर उवाच॥
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ। विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥१३-७०-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥१३-७०-२॥
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम्। त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥ समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥१३-७०-३॥
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च। इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ॥ विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥१३-७०-४॥
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम्। न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥१३-७०-५॥
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा। यमं पश्येति तं पुत्रमशपत्स महातपाः ॥१३-७०-६॥
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः। प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥१३-७०-७॥
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः। किं मया कृतमित्युक्त्वा निपपात महीतले ॥१३-७०-८॥
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः। व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥१३-७०-९॥
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह। प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥१३-७०-१०॥
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः। दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥१३-७०-११॥
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा। दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥१३-७०-१२॥
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना। अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ॥१३-७०-१३॥
कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम्। वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् ॥१३-७०-१४॥
दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश। वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः ॥१३-७०-१५॥
ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम्। प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व ॥१३-७०-१६॥
यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी। पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् ॥१३-७०-१७॥
दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता। ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व ॥१३-७०-१८॥
तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम्। इच्छाम्यहं पुण्यकृतां समृद्धाँ; ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥१३-७०-१९॥
यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम्। संदर्शयामास तदा स्म लोका; न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ॥१३-७०-२०॥
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम्। नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥१३-७०-२१॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। अनेकशतभौमानि सान्तर्जलवनानि च ॥१३-७०-२२॥
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च। तरुणादित्यवर्णानि स्थावराणि चराणि च ॥१३-७०-२३॥
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च। सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥१३-७०-२४॥
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः। घोषवन्ति च यानानि युक्तान्येव सहस्रशः ॥१३-७०-२५॥
क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम्। वैवस्वतस्यानुमतांश्च देशा; नदृष्टपूर्वान्सुबहूनपश्यम् ॥१३-७०-२६॥
सर्वं दृष्ट्वा तदहं धर्मराज; मवोचं वै प्रभविष्णुं पुराणम्। क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥१३-७०-२७॥
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम्। अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् ॥१३-७०-२८॥
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च। ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ॥१३-७०-२९॥
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम्। कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥१३-७०-३०॥
तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः। वत्सैः प्रीताः सुप्रजाः सोपचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥१३-७०-३१॥
दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च। यावन्ति लोमानि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥१३-७०-३२॥
तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम्। कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥१३-७०-३३॥
गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः। वृत्तिग्लाने सम्भ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥१३-७०-३४॥
गुर्वर्थे वा बालपुष्ट्याभिषङ्गा; द्गावो दातुं देशकालोऽविशिष्टः। अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च ॥१३-७०-३५॥
नाचिकेत उवाच॥
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम्। अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ॥१३-७०-३६॥
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम्। गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥१३-७०-३७॥
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः। तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥१३-७०-३८॥
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः। स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥१३-७०-३९॥
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः। स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥१३-७०-४०॥
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत्। दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥१३-७०-४१॥
निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः। प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः ॥१३-७०-४२॥
शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे। दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये ॥१३-७०-४३॥
इदं च मामब्रवीद्धर्मराजः; पुनः पुनः सम्प्रहृष्टो द्विजर्षे। दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः ॥१३-७०-४४॥
शुद्धो ह्यर्थो नावमन्यः स्वधर्मा; त्पात्रे देयं देशकालोपपन्ने। तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र ॥१३-७०-४५॥
एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः। तपांस्युग्राण्यप्रतिशङ्कमाना; स्ते वै दानं प्रददुश्चापि शक्त्या ॥१३-७०-४६॥
काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः। दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके ॥१३-७०-४७॥
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य। काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा ॥१३-७०-४८॥
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने। तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने ॥१३-७०-४९॥
गामप्येकां कपिलां सम्प्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत्। गवां रसात्परमं नास्ति किं चि; द्गवां दानं सुमहत्तद्वदन्ति ॥१३-७०-५०॥
गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं सञ्जनयन्ति लोके। यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः ॥१३-७०-५१॥
यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः। अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥१३-७०-५२॥
प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम्। शब्दश्चैकः सन्ततिश्चोपभोग; स्तस्माद्गोदः सूर्य इवाभिभाति ॥१३-७०-५३॥
गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता। विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति ॥१३-७०-५४॥
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य। त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः ॥१३-७०-५५॥
इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य। अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् ॥१३-७०-५६॥