Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.068
गोदानफलम्
युधिष्ठिर उवाच॥
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्। कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥१३-६८-१॥
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा। विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥१३-६८-२॥
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः। वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥१३-६८-३॥
भीष्म उवाच॥
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च। सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥१३-६८-४॥
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्। पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ॥१३-६८-५॥
तथैव गाः प्रशंसन्ति न च देयं ततः परम्। संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥ मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥१३-६८-६॥
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः। मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥१३-६८-७॥
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्। पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन ॥१३-६८-८॥
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः। तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥१३-६८-९॥
पितृसद्मानि सततं देवतायतनानि च। पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥१३-६८-१०॥
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः। अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥१३-६८-११॥
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति। नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥१३-६८-१२॥
युधिष्ठिर उवाच॥
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्। कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥१३-६८-१३॥
भीष्म उवाच॥
असद्वृत्ताय पापाय लुब्धायानृतवादिने। हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥१३-६८-१४॥
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये। दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥१३-६८-१५॥
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत्। सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥१३-६८-१६॥
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात्। यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥१३-६८-१७॥
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः। अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥१३-६८-१८॥
वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य। शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च ॥१३-६८-१९॥
यः क्षुद्भयाद्वै न विकर्म कुर्या; न्मृदुर्दान्तश्चातिथेयश्च नित्यम्। वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः ॥१३-६८-२०॥
शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे। सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः ॥१३-६८-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.