Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.080
युधिष्ठिर उवाच॥
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्। पावनं परमं चैव तन्मे ब्रूहि पितामह ॥१३-८०-१॥
भीष्म उवाच॥
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्। धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥१३-८०-२॥
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम। एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥१३-८०-३॥
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै। दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ॥१३-८०-४॥
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा। गावो ददन्तः सततं सहस्रशतसंमिताः ॥ गताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥१३-८०-५॥
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ। ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः। अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥ पितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥१३-८०-७॥
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते। किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥१३-८०-८॥
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो। किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥१३-८०-९॥
दानानामुत्तमं किं च किं च सत्रमतः परम्। पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥१३-८०-१०॥
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्। पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥१३-८०-११॥
व्यास उवाच॥
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्। गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥१३-८०-१२॥
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः। शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥१३-८०-१३॥
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह। ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥१३-८०-१४॥
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्। नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥१३-८०-१५॥
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः। पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥ गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥१३-८०-१६॥
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः। ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ॥ गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥१३-८०-१७॥
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥१३-८०-१८॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका। सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥१३-८०-१९॥
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः। तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥१३-८०-२०॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः। नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥१३-८०-२१॥
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः। सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः ॥१३-८०-२२॥
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः। उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥१३-८०-२३॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः। जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥१३-८०-२४॥
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः। सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥१३-८०-२५॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥१३-८०-२६॥
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर। सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥१३-८०-२७॥
विमानेषु विचित्रेषु रमणीयेषु भारत। मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥१३-८०-२८॥
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः। एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥१३-८०-२९॥
यासामधिपतिः पूषा मारुतो बलवान्बली। ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥१३-८०-३०॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः। प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥१३-८०-३१॥
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः। तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥१३-८०-३२॥
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः। अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥ दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥१३-८०-३३॥
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्। यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥१३-८०-३४॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्। घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ॥१३-८०-३५॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः। गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ॥ त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥१३-८०-३६॥
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः। ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥१३-८०-३७॥
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्। देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥१३-८०-३८॥
गावः पवित्राः पुण्याश्च पावनं परमं महत्। ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥१३-८०-३९॥
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्। पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥१३-८०-४०॥
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि। विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥१३-८०-४१॥
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम्। त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥१३-८०-४२॥
पुत्रकामश्च लभते पुत्रं धनमथापि च। पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥ गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥१३-८०-४३॥
एवमेता महाभागा यज्ञियाः सर्वकामदाः। रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥१३-८०-४४॥
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना। पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥१३-८०-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.