Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.079
वसिष्ठ उवाच॥
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥१३-७९-१॥
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्। घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥१३-७९-२॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥१३-७९-३॥
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा। यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥१३-७९-४॥
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा। गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥१३-७९-५॥
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः। वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ॥१३-७९-६॥
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि। परामृद्धिमवाप्याथ स गोलोके महीयते ॥१३-७९-७॥
दश चोभयतः प्रेत्य मातापित्रोः पितामहान्। दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥१३-७९-८॥
धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय। पानीयदाता च यमस्य लोके; न यातनां काञ्चिदुपैति तत्र ॥१३-७९-९॥
पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः। अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥१३-७९-१०॥
धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम्। प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः ॥१३-७९-११॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः। गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥१३-७९-१२॥
नातः पुण्यतरं दानं नातः पुण्यतरं फलम्। नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥१३-७९-१३॥
त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा। यज्ञं वहन्ति सम्भूय किमस्त्यभ्यधिकं ततः ॥१३-७९-१४॥
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्। तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥१३-७९-१५॥
गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते। न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् ॥१३-७९-१६॥
भीष्म उवाच॥
परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा। व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान् ॥१३-७९-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.