Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.081
श्रीगोसंवादः
युधिष्ठिर उवाच॥
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्। एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥१३-८१-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥१३-८१-२॥
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह। गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥१३-८१-३॥
गाव ऊचुः॥
कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि। विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥१३-८१-४॥
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि। तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥१३-८१-५॥
श्रीरुवाच॥
लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता। मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥१३-८१-६॥
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च। मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ॥१३-८१-७॥
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः। धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ॥१३-८१-८॥
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम्। इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ॥ आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ॥१३-८१-९॥
गाव ऊचुः॥
अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह। न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ॥१३-८१-१०॥
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै। यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥१३-८१-११॥
श्रीरुवाच॥
किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ। न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ॥१३-८१-१२॥
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः। स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥१३-८१-१३॥
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥१३-८१-१४॥
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह। नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥१३-८१-१५॥
गाव ऊचुः॥
नावमन्यामहे देवि न त्वां परिभवामहे। अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥१३-८१-१६॥
बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि। वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ॥१३-८१-१७॥
श्रीरुवाच॥
अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः। प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ॥१३-८१-१८॥
महाभागा भवत्यो वै शरण्याः शरणागताम्। परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥ माननां त्वहमिच्छामि भवत्यः सततं शुभाः ॥१३-८१-१९॥
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते। न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ॥१३-८१-२०॥
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत। वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ॥१३-८१-२१॥
भीष्म उवाच॥
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः। संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥१३-८१-२२॥
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि। शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ॥१३-८१-२३॥
श्रीरुवाच॥
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः। एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥१३-८१-२४॥
भीष्म उवाच॥
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत। पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥१३-८१-२५॥
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्। माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥१३-८१-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.