Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.095
शपथाध्यायः
भीष्म उवाच॥
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः। व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥१३-९५-१॥
अथापश्यन्सुपीनांसपाणिपादमुखोदरम्। परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ॥१३-९५-२॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा। भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥१३-९५-३॥
वसिष्ठ उवाच॥
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम्। सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ॥१३-९५-४॥
अत्रिरुवाच॥
नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्। कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥१३-९५-५॥
विश्वामित्र उवाच॥
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः। अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥१३-९५-६॥
जमदग्निरुवाच॥
नैतस्येह यथास्माकं भक्तमिन्धनमेव च। सञ्चिन्त्य वार्षिकं किञ्चित्तेन पीवाञ्शुनःसखः ॥१३-९५-७॥
कश्यप उवाच॥
नैतस्येह यथास्माकं चत्वारश्च सहोदराः। देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ॥१३-९५-८॥
भरद्वाज उवाच॥
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः। शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ॥१३-९५-९॥
गौतम उवाच॥
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम्। एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ॥१३-९५-१०॥
भीष्म उवाच॥
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः। अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥१३-९५-११॥
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्। अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥१३-९५-१२॥
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते। आददानाः समुद्धृत्य मूलानि च फलानि च ॥१३-९५-१३॥
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्। शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥१३-९५-१४॥
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्। वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥१३-९५-१५॥
नानाविधैश्च विहगैर्जलप्रकरसेविभिः। एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥१३-९५-१६॥
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना। यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥१३-९५-१७॥
शुनःसखसहायास्तु बिसार्थं ते महर्षयः। पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥१३-९५-१८॥
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्। स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥१३-९५-१९॥
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्। पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥१३-९५-२०॥
यातुधान्युवाच॥
यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथञ्चन। आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥१३-९५-२१॥
ऋषय ऊचुः॥
सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः। भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ॥१३-९५-२२॥
यातुधान्युवाच॥
समयेन बिसानीतो गृह्णीध्वं कामकारतः। एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥१३-९५-२३॥
भीष्म उवाच॥
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्। अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥१३-९५-२४॥
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै। अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥१३-९५-२५॥
यातुधान्युवाच॥
यथोदाहृतमेतत्ते मयि नाम महामुने। दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥१३-९५-२६॥
वसिष्ठ उवाच॥
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि। वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥१३-९५-२७॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-२८॥
कश्यप उवाच॥
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः। काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥१३-९५-२९॥
यातुधान्युवाच॥
यथोदाहृतमेतत्ते मयि नाम महामुने। दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥१३-९५-३०॥
भरद्वाज उवाच॥
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान्। भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥१३-९५-३१॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-३२॥
गौतम उवाच॥
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते। विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ॥१३-९५-३३॥
यातुधान्युवाच॥
यथोदाहृतमेतत्ते मयि नाम महामुने। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-३४॥
विश्वामित्र उवाच॥
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा। विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥१३-९५-३५॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-३६॥
जमदग्निरुवाच॥
जाजमद्यजजा नाम मृजा माह जिजायिषे। जमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥१३-९५-३७॥
यातुधान्युवाच॥
यथोदाहृतमेतत्ते मयि नाम महामुने। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-३८॥
अरुन्धत्युवाच॥
धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्। मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥१३-९५-३९॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-४०॥
गण्डोवाच॥
गण्डं गण्डं गतवती गण्डगण्डेति सञ्ज्ञिता। गण्डगण्डेव गण्डेति विद्धि मानलसम्भवे ॥१३-९५-४१॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-४२॥
पशुसख उवाच॥
सखा सखे यः सख्येयः पशूनां च सखा सदा। गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥१३-९५-४३॥
यातुधान्युवाच॥
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१३-९५-४४॥
शुनःसख उवाच॥
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे। शुनःसखसखायं मां यातुधान्युपधारय ॥१३-९५-४५॥
यातुधान्युवाच॥
नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा। तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥१३-९५-४६॥
शुनःसख उवाच॥
सकृदुक्तं मया नाम न गृहीतं यदा त्वया। तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥१३-९५-४७॥
भीष्म उवाच॥
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा। कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥१३-९५-४८॥
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्। भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥१३-९५-४९॥
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च। यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥१३-९५-५०॥
श्रमेण महता युक्तास्ते बिसानि कलापशः। तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥१३-९५-५१॥
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन्। नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥१३-९५-५२॥
ऋषय ऊचुः॥
केन क्षुधाभिभूतानामस्माकं पापकर्मणा। नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥१३-९५-५३॥
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः। त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥१३-९५-५४॥
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम्। क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥१३-९५-५५॥
अत्रिरुवाच॥
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु। अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥१३-९५-५६॥
वसिष्ठ उवाच॥
अनध्यायपरो लोके शुनः स परिकर्षतु। परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥१३-९५-५७॥
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु। अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥१३-९५-५८॥
कश्यप उवाच॥
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च। कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥१३-९५-५९॥
वृथामांसं समश्नातु वृथादानं करोतु च। यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥१३-९५-६०॥
भरद्वाज उवाच॥
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च। ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥१३-९५-६१॥
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च। जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥१३-९५-६२॥
जमदग्निरुवाच॥
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम्। अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥१३-९५-६३॥
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्। अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥१३-९५-६४॥
गौतम उवाच॥
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु। विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥१३-९५-६५॥
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः। तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥१३-९५-६६॥
विश्वामित्र उवाच॥
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः। अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥१३-९५-६७॥
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः। कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥१३-९५-६८॥
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः। अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ॥१३-९५-६९॥
अरुन्धत्युवाच॥
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः। एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥१३-९५-७०॥
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये। अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥१३-९५-७१॥
गण्डोवाच॥
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु। ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥१३-९५-७२॥
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह। विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥१३-९५-७३॥
पशुसख उवाच॥
दास्य एव प्रजायेत सोऽप्रसूतिरकिञ्चनः। दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥१३-९५-७४॥
शुनःसख उवाच॥
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये। आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि ॥१३-९५-७५॥
ऋषय ऊचुः॥
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः। त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥१३-९५-७६॥
शुनःसख उवाच॥
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः। सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥१३-९५-७७॥
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत। परीक्षार्थं भगवतां कृतमेतन्मयानघाः ॥ रक्षणार्थं च सर्वेषां भवतामहमागतः ॥१३-९५-७८॥
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी। वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥१३-९५-७९॥
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा। तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ॥१३-९५-८०॥
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः। उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥१३-९५-८१॥
भीष्म उवाच॥
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्। सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥१३-९५-८२॥
एवमेते महात्मानो भोगैर्बहुविधैरपि। क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ॥ नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥१३-९५-८३॥
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्। एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥१३-९५-८४॥
इदं नरः सच्चरितं समवायेषु कीर्तयेत्। सुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥१३-९५-८५॥
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा। यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥१३-९५-८६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.