Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.094
प्रतिग्रहदोषाः
युधिष्ठिर उवाच॥
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च। दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ॥१३-९४-१॥
भीष्म उवाच॥
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः। गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥१३-९४-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥१३-९४-३॥
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥१३-९४-४॥
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका। शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥१३-९४-५॥
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्। समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥१३-९४-६॥
अथाभवदनावृष्टिर्महती कुरुनन्दन। कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥१३-९४-७॥
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना। दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥१३-९४-८॥
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो। ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥१३-९४-९॥
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः। अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥१३-९४-१०॥
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः। कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥१३-९४-११॥
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः। राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥१३-९४-१२॥
वृषादर्भिरुवाच॥
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्। मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ॥१३-९४-१३॥
प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम्। एकैकशः सवृषाः सम्प्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥१३-९४-१४॥
कुलम्भराननडुहः शतंशता; न्धुर्याञ्शुभान्सर्वशोऽहं ददानि। पृथ्वीवाहान्पीवरांश्चैव ताव; दग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥१३-९४-१५॥
वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि। मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ॥१३-९४-१६॥
ऋषय ऊचुः॥
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः। तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥१३-९४-१७॥
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम्। अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥१३-९४-१८॥
अह्नापीह तपो जातु ब्राह्मणस्योपजायते। तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥१३-९४-१९॥
कुशलं सह दानेन राजन्नस्तु सदा तव। अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥१३-९४-२०॥
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम्। अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥१३-९४-२१॥
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः। प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥१३-९४-२२॥
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्। भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥१३-९४-२३॥
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्। न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ॥ हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ॥१३-९४-२४॥
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम्। अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥१३-९४-२५॥
वसिष्ठ उवाच॥
शतेन निष्कं गणितं सहस्रेण च संमितम्। यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥१३-९४-२६॥
कश्यप उवाच॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥१३-९४-२७॥
भरद्वाज उवाच॥
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते। प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥१३-९४-२८॥
गौतम उवाच॥
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्। समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥१३-९४-२९॥
विश्वामित्र उवाच॥
कामं कामयमानस्य यदा कामः समृध्यते। अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥१३-९४-३०॥
जमदग्निरुवाच॥
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्। तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥१३-९४-३१॥
अरुन्धत्युवाच॥
धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसंमतः। तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥१३-९४-३२॥
गण्डोवाच॥
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः। बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥१३-९४-३३॥
पशुसख उवाच॥
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः। विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥१३-९४-३४॥
ऋषय ऊचुः॥
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः। फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ॥१३-९४-३५॥
भीष्म उवाच॥
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते। ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ॥१३-९४-३६॥
मन्त्रिणः ऊचुः॥
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै। ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥१३-९४-३७॥
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह। तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥१३-९४-३८॥
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः। जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ॥१३-९४-३९॥
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी। तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥१३-९४-४०॥
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता। वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥१३-९४-४१॥
वृषादर्भिरुवाच॥
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च। दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥१३-९४-४२॥
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय। विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥१३-९४-४३॥
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी। जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥१३-९४-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.