Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.096
भीष्म उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥१३-९६-१॥
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम। राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥१३-९६-२॥
ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त। चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे ॥१३-९६-३॥
शुक्रोऽङ्गिराश्चैव कविश्च विद्वां; स्तथागस्त्यो नारदपर्वतौ च। भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् ॥१३-९६-४॥
ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः। शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥१३-९६-५॥
जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र। तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥१३-९६-६॥
सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम्। देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः ॥१३-९६-७॥
केचिद्बिसान्यखनंस्तत्र राज; न्नन्ये मृणालान्यखनंस्तत्र विप्राः। अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै ॥१३-९६-८॥
तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम्। युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥१३-९६-९॥
शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा। पुराधर्मो वर्धते नेह याव; त्तावद्गच्छामि परलोकं चिराय ॥१३-९६-१०॥
पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति। पुरा राजा व्यवहारानधर्म्या; न्पश्यत्यहं परलोकं व्रजामि ॥१३-९६-११॥
पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे। तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय ॥१३-९६-१२॥
पुरा प्रपश्यामि परेण मर्त्या; न्बलीयसा दुर्बलान्भुज्यमानान्। तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥१३-९६-१३॥
तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः। मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे ॥१३-९६-१४॥
ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र। ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः ॥१३-९६-१५॥
भृगुरुवाच॥
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्। खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥१३-९६-१६॥
वसिष्ठ उवाच॥
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु। पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥१३-९६-१७॥
कश्यप उवाच॥
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च। कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥१३-९६-१८॥
गौतम उवाच॥
जीवत्वहङ्कृतो बुद्ध्या विपणत्वधमेन सः। कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥१३-९६-१९॥
अङ्गिरा उवाच॥
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु। ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥१३-९६-२०॥
धुन्धुमार उवाच॥
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु। एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥१३-९६-२१॥
पूरुरुवाच॥
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु। श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥१३-९६-२२॥
दिलीप उवाच॥
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः। तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥१३-९६-२३॥
शुक्र उवाच॥
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम्। प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥१३-९६-२४॥
जमदग्निरुवाच॥
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्। श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥१३-९६-२५॥
शिबिरुवाच॥
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च। तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥१३-९६-२६॥
ययातिरुवाच॥
अनृतौ जटी व्रतिन्यां वै भार्यायां सम्प्रजायतु। निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥१३-९६-२७॥
नहुष उवाच॥
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः। विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥१३-९६-२८॥
अम्बरीष उवाच॥
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च। ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ॥१३-९६-२९॥
नारद उवाच॥
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम्। गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥१३-९६-३०॥
नाभाग उवाच॥
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु। शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥१३-९६-३१॥
कविरुवाच॥
पदा स गां ताडयतु सूर्यं च प्रति मेहतु। शरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥१३-९६-३२॥
विश्वामित्र उवाच॥
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः। ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥१३-९६-३३॥
पर्वत उवाच॥
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु। शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥१३-९६-३४॥
भरद्वाज उवाच॥
सर्वपापसमादानं नृशंसे चानृते च यत्। तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥१३-९६-३५॥
अष्टक उवाच॥
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत्। अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ॥१३-९६-३६॥
गालव उवाच॥
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत्। दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥१३-९६-३७॥
अरुन्धत्युवाच॥
श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः। एका स्वादु समश्नातु या ते हरति पुष्करम् ॥१३-९६-३८॥
वालखिल्या ऊचुः॥
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु। धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥१३-९६-३९॥
पशुसख उवाच॥
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः। परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥१३-९६-४०॥
सुरभ्युवाच॥
बाल्वजेन निदानेन कांस्यं भवतु दोहनम्। दुह्येत परवत्सेन या ते हरति पुष्करम् ॥१३-९६-४१॥
भीष्म उवाच॥
ततस्तु तैः शपथैः शप्यमानै; र्नानाविधैर्बहुभिः कौरवेन्द्र। सहस्राक्षो देवराट्सम्प्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् ॥१३-९६-४२॥
अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम्। ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् ॥१३-९६-४३॥
शक्र उवाच॥
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये। आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति ॥१३-९६-४४॥
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः। ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥१३-९६-४५॥
अगस्त्य उवाच॥
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन। दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥१३-९६-४६॥
इन्द्र उवाच॥
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै। धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥१३-९६-४७॥
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः। आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥१३-९६-४८॥
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम। अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥१३-९६-४९॥
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्। जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥१३-९६-५०॥
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः। पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ॥१३-९६-५१॥
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि। न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥१३-९६-५२॥
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह। विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥१३-९६-५३॥
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम्। स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥१३-९६-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.