13.097
छत्रोपानहोत्पत्तिः
युधिष्ठिर उवाच॥
यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ। छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥ कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥१३-९७-१॥
न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते। एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ॥१३-९७-२॥
भीष्म उवाच॥
शृणु राजन्नवहितश्छत्रोपानहविस्तरम्। यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥१३-९७-३॥
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्। सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥१३-९७-४॥
इतिहासं पुरावृत्तमिमं शृणु नराधिप। जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥१३-९७-५॥
पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो। सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः ॥१३-९७-६॥
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः। आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥१३-९७-७॥
अथ तेन स शब्देन ज्यातलस्य शरस्य च। प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥१३-९७-८॥
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे। स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ॥१३-९७-९॥
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्। यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥१३-९७-१०॥
सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी। तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥१३-९७-११॥
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा। ययावानयितुं भूयः सायकानसितेक्षणा ॥ प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥१३-९७-१२॥
सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती। उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥१३-९७-१३॥
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम्। रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥१३-९७-१४॥
रेणुकोवाच॥
शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन। सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥१३-९७-१५॥
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया। एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥१३-९७-१६॥
जमदग्निरुवाच॥
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्। शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥१३-९७-१७॥
भीष्म उवाच॥
स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान्। अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥१३-९७-१८॥
अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत्। द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥१३-९७-१९॥
आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः। रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥१३-९७-२०॥
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्। अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥१३-९७-२१॥
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः। सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥१३-९७-२२॥
ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम्। सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥१३-९७-२३॥
जातकर्माणि सर्वाणि व्रतोपनयनानि च। गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥१३-९७-२४॥
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः। अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥१३-९७-२५॥
रमणीयानि यावन्ति यावदारम्भकाणि च। सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥१३-९७-२६॥
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया। प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥१३-९७-२७॥