13.101
दीपादिदानम्
युधिष्ठिर उवाच॥
आलोकदानं नामैतत्कीदृशं भरतर्षभ। कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥१३-१०१-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥१३-१०१-२॥
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः। वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥१३-१०१-३॥
कुलशीलगुणोपेतः स्वाध्याये च परं गतः। बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥१३-१०१-४॥
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च। कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥१३-१०१-५॥
ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते। रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥१३-१०१-६॥
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः। ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥१३-१०१-७॥
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम्। हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥१३-१०१-८॥
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर। किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥१३-१०१-९॥
मनुरुवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शुक्रस्य च बलेश्चैव संवादं वै समागमे ॥१३-१०१-१०॥
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः। समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥१३-१०१-११॥
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः। निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥१३-१०१-१२॥
कथेयमभवत्तत्र या त्वया परिकीर्तिता। सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ॥१३-१०१-१३॥
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्। सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ॥ प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥१३-१०१-१४॥
शुक्र उवाच॥
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्। एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥१३-१०१-१५॥
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले। अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥१३-१०१-१६॥
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च। मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥१३-१०१-१७॥
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्। ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् ॥१३-१०१-१८॥
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह। तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥१३-१०१-१९॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः। तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥१३-१०१-२०॥
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो। मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥१३-१०१-२१॥
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्। ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥१३-१०१-२२॥
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे। आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥१३-१०१-२३॥
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः। पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ॥१३-१०१-२४॥
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः। अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ॥१३-१०१-२५॥
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः। इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥१३-१०१-२६॥
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः। तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥१३-१०१-२७॥
जलजानि च माल्यानि पद्मादीनि च यानि च। गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥१३-१०१-२८॥
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः। शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥१३-१०१-२९॥
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः। रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥१३-१०१-३०॥
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः। चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥१३-१०१-३१॥
न तु श्मशानसम्भूता न देवायतनोद्भवाः। संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥१३-१०१-३२॥
गिरिसानुरुहाः सौम्या देवानामुपपादयेत्। प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥१३-१०१-३३॥
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः। नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥१३-१०१-३४॥
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत। सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ॥१३-१०१-३५॥
देवाः प्रीणन्ति सततं मानिता मानयन्ति च। अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥१३-१०१-३६॥
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम्। धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥१३-१०१-३७॥
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः। इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥१३-१०१-३८॥
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते। गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥१३-१०१-३९॥
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम्। दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥१३-१०१-४०॥
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः। फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥१३-१०१-४१॥
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः। येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ॥१३-१०१-४२॥
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः। धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥१३-१०१-४३॥
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्। यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥१३-१०१-४४॥
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते। प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥१३-१०१-४५॥
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च। उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥१३-१०१-४६॥
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम्। तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥१३-१०१-४७॥
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः। तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ॥१३-१०१-४८॥
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः। तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥१३-१०१-४९॥
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः। दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥१३-१०१-५०॥
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः। वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥१३-१०१-५१॥
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे। दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥१३-१०१-५२॥
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति। ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥१३-१०१-५३॥
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान्। देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥१३-१०१-५४॥
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः। राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥१३-१०१-५५॥
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्। शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥१३-१०१-५६॥
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा। बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥१३-१०१-५७॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा। ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥१३-१०१-५८॥
बलयः सह पुष्पैस्तु देवानामुपहारयेत्। दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥१३-१०१-५९॥
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम्। सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ॥१३-१०१-६०॥
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः। तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ॥१३-१०१-६१॥
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः। तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥१३-१०१-६२॥
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः। ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥१३-१०१-६३॥
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः। सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥१३-१०१-६४॥
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते। त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥१३-१०१-६५॥