Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.100
बलिप्रदानम्
युधिष्ठिर उवाच॥
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ। ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥१३-१००-१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप। वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥१३-१००-२॥
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान्। पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥१३-१००-३॥
वासुदेव उवाच॥
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा। किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥१३-१००-४॥
पृथिव्युवाच॥
ऋषयः पितरो देवा मनुष्याश्चैव माधव। इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥१३-१००-५॥
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान्। छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ॥ तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥१३-१००-६॥
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च। कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥१३-१००-७॥
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा। पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥१३-१००-८॥
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि। अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥१३-१००-९॥
प्रजानां पतये चैव पृथग्घोमो विधीयते। तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥१३-१००-१०॥
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च। सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥१३-१००-११॥
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव। मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ॥ मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥१३-१००-१२॥
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्। निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥१३-१००-१३॥
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये। अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥१३-१००-१४॥
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः। तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥१३-१००-१५॥
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः। वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥१३-१००-१६॥
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि। अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥१३-१००-१७॥
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते। आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः। इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१३-१००-१९॥
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते। गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥१३-१००-२०॥
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च। अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥१३-१००-२१॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि। वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥१३-१००-२२॥
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः। स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥१३-१००-२३॥
भीष्म उवाच॥
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्। तथा चकार सततं त्वमप्येवं समाचर ॥१३-१००-२४॥
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप। इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥१३-१००-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.