13.102
पुष्पादिदानफलम्
युधिष्ठिर उवाच॥
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्। फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥१३-१०२-१॥
धूपप्रदानस्य फलं प्रदीपस्य तथैव च। बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥१३-१०२-२॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ॥१३-१०२-३॥
नहुषो हि महाराज राजर्षिः सुमहातपाः। देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥१३-१०२-४॥
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्। मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥१३-१०२-५॥
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः। प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥१३-१०२-६॥
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा। बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥१३-१०२-७॥
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः। जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥१३-१०२-८॥
दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः। सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ॥१३-१०२-९॥
अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत्। सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ॥१३-१०२-१०॥
स ऋषीन्वाहयामास वरदानमदान्वितः। परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ॥१३-१०२-११॥
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्। अहङ्काराभिभूतस्य सुमहानत्यवर्तत ॥१३-१०२-१२॥
अथ पर्यायश ऋषीन्वाहनायोपचक्रमे। पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥१३-१०२-१३॥
अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः। अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥१३-१०२-१४॥
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः। नहुषस्य किमर्थं वै मर्षयाम महामुने ॥१३-१०२-१५॥
अगस्त्य उवाच॥
कथमेष मया शक्यः शप्तुं यस्य महामुने। वरदेन वरो दत्तो भवतो विदितश्च सः ॥१३-१०२-१६॥
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति। इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ॥१३-१०२-१७॥
एवं न दग्धः स मया भवता च न संशयः। अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ॥१३-१०२-१८॥
अमृतं चैव पानाय दत्तमस्मै पुरा विभो। महात्मने तदर्थं च नास्माभिर्विनिपात्यते ॥१३-१०२-१९॥
प्रायच्छत वरं देवः प्रजानां दुःखकारकम्। द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥१३-१०२-२०॥
अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर। भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ॥१३-१०२-२१॥
भृगुरुवाच॥
पितामहनियोगेन भवन्तमहमागतः। प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ॥१३-१०२-२२॥
अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट्। अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥१३-१०२-२३॥
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्। सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ॥१३-१०२-२४॥
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति। दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥१३-१०२-२५॥
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्। अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥१३-१०२-२६॥
तत एनं सुदुर्बुद्धिं धिक्षब्दाभिहतत्विषम्। धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ॥१३-१०२-२७॥
नहुषं पापकर्माणमैश्वर्यबलमोहितम्। यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥१३-१०२-२८॥
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः। अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥१३-१०२-२९॥