Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.103
दीपादिदानफलम्
युधिष्ठिर उवाच॥
कथं स वै विपन्नश्च कथं वै पातितो भुवि। कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥१३-१०३-१॥
भीष्म उवाच॥
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः। सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥ सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥१३-१०३-३॥
देवलोके नृलोके च सदाचारा बुधैः स्मृताः। ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ॥ धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥१३-१०३-४॥
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते। बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥१३-१०३-५॥
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा। तथा शतगुणा प्रीतिर्देवतानां स्म जायते ॥१३-१०३-६॥
एवं धूपप्रदानं च दीपदानं च साधवः। प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥१३-१०३-७॥
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता। नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ॥ गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥१३-१०३-८॥
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः। सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥१३-१०३-९॥
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते। सर्वमेतदवज्ञाय न चकारैतदीदृशम् ॥१३-१०३-१०॥
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः। धूपदीपोदकविधिं न यथावच्चकार ह ॥ ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥१३-१०३-११॥
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह। द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥१३-१०३-१२॥
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्। निमीलयस्व नयने जटा यावद्विशामि ते ॥१३-१०३-१३॥
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः। भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥१३-१०३-१४॥
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै। ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥१३-१०३-१५॥
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते। यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥१३-१०३-१६॥
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम्। भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥१३-१०३-१७॥
न चापि दर्शनं तस्य चकार स भृगुस्तदा। वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥१३-१०३-१८॥
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै। तं तु राजा प्रतोदेन चोदयामास भारत ॥१३-१०३-१९॥
न चुकोप स धर्मात्मा ततः पादेन देवराट्। अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥१३-१०३-२०॥
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः। शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥१३-१०३-२१॥
भृगुरुवाच॥
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम्। तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥१३-१०३-२२॥
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह। अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥१३-१०३-२३॥
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते। न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥१३-१०३-२४॥
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा। पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥ प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥१३-१०३-२५॥
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्। शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥१३-१०३-२६॥
भृगुरुवाच॥
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः। स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥१३-१०३-२७॥
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः। स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥१३-१०३-२८॥
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः। जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥१३-१०३-२९॥
तदा तु पातयित्वा तं नहुषं भूतले भृगुः। जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ॥१३-१०३-३०॥
ततः शक्रं समानाय्य देवानाह पितामहः। वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ॥ स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥१३-१०३-३१॥
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित्। तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥१३-१०३-३२॥
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम्। एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥१३-१०३-३३॥
सोऽभिषिक्तो भगवता देवराज्येन वासवः। ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥१३-१०३-३४॥
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात्। स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥१३-१०३-३५॥
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः। दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ॥ पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥१३-१०३-३६॥
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः। रूपवान्धनवांश्चापि नरो भवति दीपदः ॥१३-१०३-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.