13.115
अहिंसाफलम्
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा शरतल्पे पितामहम्। पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥१३-११५-१॥
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते। अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥१३-११५-२॥
कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम। वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥१३-११५-३॥
भीष्म उवाच॥
चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः। एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥१३-११५-४॥
यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति। तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ॥१३-११५-५॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम्। सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥ एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ॥१३-११५-६॥
कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च। पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा। त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ॥१३-११५-८॥
मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः। न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥१३-११५-९॥
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे। पुत्रमांसोपमं जानन्खादते यो विचेतनः ॥१३-११५-१०॥
मातापितृसमायोगे पुत्रत्वं जायते यथा। रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ॥ तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥१३-११५-११॥
असंस्कृताः संस्कृताश्च लवणालवणास्तथा। प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥१३-११५-१२॥
भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान्। निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥१३-११५-१३॥
अचिन्तितमनुद्दिष्टमसङ्कल्पितमेव च। रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ॥ प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ॥१३-११५-१४॥
जीवितं हि परित्यज्य बहवः साधवो जनाः। स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥१३-११५-१५॥
एवमेषा महाराज चतुर्भिः कारणैर्वृता। अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥१३-११५-१६॥