Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.114
युधिष्ठिर उवाच॥
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः। तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥१३-११४-१॥
बृहस्पतिरुवाच॥
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः। शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ॥१३-११४-२॥
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्। अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥१३-११४-३॥
त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा। कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥१३-११४-४॥
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः। आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ॥१३-११४-५॥
आत्मोपमश्च भूतेषु यो वै भवति पूरुषः। न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥१३-११४-६॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः। देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥१३-११४-७॥
न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः। एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ॥१३-११४-८॥
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये। आत्मौपम्येन पुरुषः समाधिमधिगच्छति ॥१३-११४-९॥
यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन्। एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः ॥१३-११४-१०॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम्। दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ॥१३-११४-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.