13.116
युधिष्ठिर उवाच॥
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया। श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥१३-११६-१॥
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा। अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥१३-११६-२॥
जातो नः संशयो धर्मे मांसस्य परिवर्जने। दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥१३-११६-३॥
हत्वा भक्षयतो वापि परेणोपहृतस्य वा। हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥१३-११६-४॥
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ। निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥१३-११६-५॥
कथमायुरवाप्नोति कथं भवति सत्त्ववान्। कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥१३-११६-६॥
भीष्म उवाच॥
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुङ्गव। तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥१३-११६-७॥
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्। प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ॥१३-११६-८॥
ऋषीणामत्र संवादो बहुशः कुरुपुङ्गव। बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥१३-११६-९॥
यो यजेताश्वमेधेन मासि मासि यतव्रतः। वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥१३-११६-१०॥
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः। अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥१३-११६-११॥
न भक्षयति यो मांसं न हन्यान्न च घातयेत्। तं मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ॥१३-११६-१२॥
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु। साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥१३-११६-१३॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति। नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥१३-११६-१४॥
ददाति यजते चापि तपस्वी च भवत्यपि। मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥१३-११६-१५॥
मासि मास्यश्वमेधेन यो यजेत शतं समाः। न खादति च यो मांसं सममेतन्मतं मम ॥१३-११६-१६॥
सदा यजति सत्रेण सदा दानं प्रयच्छति। सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥१३-११६-१७॥
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत। यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥१३-११६-१८॥
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्। चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥१३-११६-१९॥
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्। दाता भवति लोके स प्राणानां नात्र संशयः ॥१३-११६-२०॥
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः। प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥१३-११६-२१॥
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः। मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥१३-११६-२२॥
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्। अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥१३-११६-२३॥
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम्। धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥१३-११६-२४॥
अहिंसा परमो धर्मस्तथाहिंसा परं तपः। अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥१३-११६-२५॥
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते। हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ॥१३-११६-२६॥
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः। क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ॥१३-११६-२७॥
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च। रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥ अमांसभक्षणे राजन्भयमन्ते न गच्छति ॥१३-११६-२८॥
यदि चेत्खादको न स्यान्न तदा घातको भवेत्। घातकः खादकार्थाय तं घातयति वै नरः ॥१३-११६-२९॥
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते। खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥१३-११६-३०॥
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते। तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥१३-११६-३१॥
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः। उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥१३-११६-३२॥
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च। संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ॥१३-११६-३३॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति। उद्विग्नवासे वसति यत्रतत्राभिजायते ॥१३-११६-३४॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥१३-११६-३५॥
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया। मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥१३-११६-३६॥
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम्। हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥१३-११६-३७॥
धनेन क्रायको हन्ति खादकश्चोपभोगतः। घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥१३-११६-३८॥
अखादन्ननुमोदंश्च भावदोषेण मानवः। योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ॥१३-११६-३९॥
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी। भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥१३-११६-४०॥
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः। मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ॥१३-११६-४१॥
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत्। भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥१३-११६-४२॥
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया। अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥१३-११६-४३॥
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः। महादोषकरस्तत्र खादको न तु घातकः ॥१३-११६-४४॥
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः। हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ॥१३-११६-४५॥
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते। तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥१३-११६-४६॥
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥१३-११६-४७॥
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्। पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥१३-११६-४८॥
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते। यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥१३-११६-४९॥
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि। वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ॥ अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ॥१३-११६-५०॥
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ। विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥१३-११६-५१॥
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्। स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥१३-११६-५२॥
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः। येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥१३-११६-५३॥
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा। अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ॥१३-११६-५४॥
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः। एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥१३-११६-५५॥
प्रजानां हितकामेन त्वगस्त्येन महात्मना। आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥१३-११६-५६॥
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः। प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥१३-११६-५७॥
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ। अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥१३-११६-५८॥
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्। यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥१३-११६-५९॥
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप। वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥१३-११६-६०॥
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्। चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥१३-११६-६१॥
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन्। अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ॥१३-११६-६२॥
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा। तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥१३-११६-६३॥
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः। सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ॥१३-११६-६४॥
नाभागेनाम्बरीषेण गयेन च महात्मना। आयुषा चानरण्येन दिलीपरघुपूरुभिः ॥१३-११६-६५॥
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना। नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥ युवनाश्वेन च तथा शिबिनौशीनरेण च ॥१३-११६-६६॥
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च। रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ॥१३-११६-६७॥
दुःषन्तेन करूषेण रामालर्कनलैस्तथा। विरूपाश्वेन निमिना जनकेन च धीमता ॥१३-११६-६८॥
सिलेन पृथुना चैव वीरसेनेन चैव ह। इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥१३-११६-६९॥
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्। शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥१३-११६-७०॥
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः। उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥१३-११६-७१॥
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम्। ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥१३-११६-७२॥
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः। जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥ विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥१३-११६-७३॥
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्। मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥१३-११६-७४॥
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः। बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥१३-११६-७५॥
एतत्ते कथितं राजन्मांसस्य परिवर्जने। प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥१३-११६-७६॥