13.117
युधिष्ठिर उवाच॥
इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः। विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ॥१३-११७-१॥
नापूपान्विविधाकाराञ्शाकानि विविधानि च। षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ॥१३-११७-२॥
तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते। न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन ॥१३-११७-३॥
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा। भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥१३-११७-४॥
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः। किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥१३-११७-५॥
भीष्म उवाच॥
एवमेतन्महाबाहो यथा वदसि भारत। न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ॥१३-११७-६॥
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये। अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥१३-११७-७॥
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च। न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप ॥१३-११७-८॥
विवर्जने तु बहवो गुणाः कौरवनन्दन। ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥१३-११७-९॥
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति। नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ॥१३-११७-१०॥
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते। तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ॥१३-११७-११॥
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः। भक्षणे तु महान्दोषो वधेन सह कल्पते ॥१३-११७-१२॥
अहिंसालक्षणो धर्म इति वेदविदो विदुः। यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ॥१३-११७-१३॥
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते। विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥१३-११७-१४॥
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः। अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥१३-११७-१५॥
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु। वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ॥१३-११७-१६॥
आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः। अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥१३-११७-१७॥
नात्मानमपरित्यज्य मृगया नाम विद्यते। समतामुपसङ्गम्य रूपं हन्यान्न वा नृप ॥१३-११७-१८॥
अतो राजर्षयः सर्वे मृगयां यान्ति भारत। लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ॥१३-११७-१९॥
न हि तत्परमं किञ्चिदिह लोके परत्र च। यत्सर्वेष्विह लोकेषु दया कौरवनन्दन ॥१३-११७-२०॥
न भयं विद्यते जातु नरस्येह दयावतः। दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥१३-११७-२१॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः। अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥१३-११७-२२॥
क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम्। सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥१३-११७-२३॥
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः। मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ॥१३-११७-२४॥
प्राणदानात्परं दानं न भूतं न भविष्यति। न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् ॥१३-११७-२५॥
अनिष्टं सर्वभूतानां मरणं नाम भारत। मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥१३-११७-२६॥
जातिजन्मजरादुःखे नित्यं संसारसागरे। जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥१३-११७-२७॥
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः। मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ॥१३-११७-२८॥
जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः। पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥१३-११७-२९॥
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः। आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥१३-११७-३०॥
नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह। तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥१३-११७-३१॥
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत्। स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥१३-११७-३२॥
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्। भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ॥१३-११७-३३॥
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम्। एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ॥१३-११७-३४॥
घातको वध्यते नित्यं तथा वध्येत बन्धकः। आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥१३-११७-३५॥
येन येन शरीरेण यद्यत्कर्म करोति यः। तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥१३-११७-३६॥
अहिंसा परमो धर्मस्तथाहिंसा परो दमः। अहिंसा परमं दानमहिंसा परमं तपः ॥१३-११७-३७॥
अहिंसा परमो यज्ञस्तथाहिंसा परं बलम्। अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ॥१३-११७-३८॥
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम्। सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥१३-११७-३९॥
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा। अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥१३-११७-४०॥
एतत्फलमहिंसाया भूयश्च कुरुपुङ्गव। न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ॥१३-११७-४१॥