13.118
कीटोपाख्यानम्
युधिष्ठिर उवाच॥
अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे। कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥१३-११८-१॥
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे। जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥१३-११८-२॥
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे। कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥१३-११८-३॥
भीष्म उवाच॥
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे। संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ॥१३-११८-४॥
निरता येन भावेन तत्र मे शृणु कारणम्। सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ॥१३-११८-५॥
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप। द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥१३-११८-६॥
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा। ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥१३-११८-७॥
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम्। सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥१३-११८-८॥
कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे। क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥१३-११८-९॥
कीट उवाच॥
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम। आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥ श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥१३-११८-१०॥
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम्। वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ॥ नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥१३-११८-११॥
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना। तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥१३-११८-१२॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्। अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥१३-११८-१३॥
भीष्म उवाच॥
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव। मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥१३-११८-१४॥
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्। नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥१३-११८-१५॥
कीट उवाच॥
सर्वत्र निरतो जीव इतीहापि सुखं मम। चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥१३-११८-१६॥
इहापि विषयः सर्वो यथादेहं प्रवर्तितः। मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥१३-११८-१७॥
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा। अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥१३-११८-१८॥
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः। मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥१३-११८-१९॥
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया। मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥१३-११८-२०॥
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया। न दत्तमर्थकामेन देयमन्नं पुनाति ह ॥१३-११८-२१॥
गुप्तं शरणमाश्रित्य भयेषु शरणागताः। अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥१३-११८-२२॥
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम्। श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥१३-११८-२३॥
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः। त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥१३-११८-२४॥
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया। स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥१३-११८-२५॥
शुभानामपि जानामि कृतानां कर्मणां फलम्। माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥१३-११८-२६॥
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः। अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥१३-११८-२७॥
कर्मणा तेन चैवाहं सुखाशामिह लक्षये। तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥१३-११८-२८॥