13.120
भीष्म उवाच॥
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान्। त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ॥१३-१२०-१॥
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः। आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥१३-१२०-२॥
व्यास उवाच॥
क्षात्रं चैव व्रतं कीट भूतानां परिपालनम्। क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ॥१३-१२०-३॥
पाहि सर्वाः प्रजाः सम्यक्षुभाशुभविदात्मवान्। शुभैः संविभजन्कामैरशुभानां च पावनैः ॥१३-१२०-४॥
आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः। क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥१३-१२०-५॥
भीष्म उवाच॥
सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर। महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥१३-१२०-६॥
अचिरेणैव कालेन कीटः पार्थिवसत्तम। प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥१३-१२०-७॥
ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः। आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥१३-१२०-८॥
व्यास उवाच॥
भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन। शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् ॥१३-१२०-९॥
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन। धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् ॥१३-१२०-१०॥
कीट उवाच॥
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्। धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ॥१३-१२०-११॥
भीष्म उवाच॥
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्। अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ॥ ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥१३-१२०-१२॥
अवाप च परं कीटः पार्थ ब्रह्म सनातनम्। स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥१३-१२०-१३॥
तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुङ्गवाः। सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ॥१३-१२०-१४॥