13.119
व्यास उवाच॥
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे। ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥१३-११९-१॥
अहं हि दर्शनादेव तारयामि तपोबलात्। तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥१३-११९-२॥
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्। अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥१३-११९-३॥
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये। धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥१३-११९-४॥
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः। किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥१३-११९-५॥
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः। ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥१३-११९-६॥
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे। तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥१३-११९-७॥
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत। तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥१३-११९-८॥
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्। श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥१३-११९-९॥
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना। प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥१३-११९-१०॥
कीट उवाच॥
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः। यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥१३-११९-११॥
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः। स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥१३-११९-१२॥
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्। सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥१३-११९-१३॥
गृहेषु सुनिवासेषु सुखेषु शयनेषु च। परार्ध्येषु महाभाग स्वपामीह सुपूजितः ॥१३-११९-१४॥
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः। स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥१३-११९-१५॥
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः। यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ॥१३-११९-१६॥
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्। त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥१३-११९-१७॥
व्यास उवाच॥
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया। अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ॥१३-११९-१८॥
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा। शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥१३-११९-१९॥
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा। तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥१३-११९-२०॥
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि। गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ॥१३-११९-२१॥
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान्। अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥१३-११९-२२॥
तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः। वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥१३-११९-२३॥