13.121
मैत्रेयभिक्षा
युधिष्ठिर उवाच॥
विद्या तपश्च दानं च किमेतेषां विशिष्यते। पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१३-१२१-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥१३-१२१-२॥
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्। वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥१३-१२१-३॥
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम्। अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥१३-१२१-४॥
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्। प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥१३-१२१-५॥
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्। कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ॥ तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥१३-१२१-६॥
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च। आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥१३-१२१-७॥
पृथगाचरतस्तात पृथगात्मनि चात्मनोः। अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥१३-१२१-८॥
व्यास उवाच॥
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः। असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥१३-१२१-९॥
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्। न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ॥ इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥१३-१२१-१०॥
अल्पोऽपि तादृशो दायो भवत्युत महाफलः। तृषिताय च यद्दत्तं हृदयेनानसूयता ॥१३-१२१-११॥
तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम। अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ॥ अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥१३-१२१-१२॥
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम्। पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥१३-१२१-१३॥
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात्। शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥१३-१२१-१४॥
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि। तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ॥१३-१२१-१५॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः। ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥१३-१२१-१६॥
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः। सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥१३-१२१-१७॥
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम्। सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥१३-१२१-१८॥
तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम्। श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ॥१३-१२१-१९॥
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्। दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥१३-१२१-२०॥
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः। पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥१३-१२१-२१॥
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम्। तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥१३-१२१-२२॥
रमस्वैधस्व मोदस्व देहि चैव यजस्व च। न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥१३-१२१-२३॥