Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.122
भीष्म उवाच॥
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः। अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥१३-१२२-१॥
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्। अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो ॥१३-१२२-२॥
व्यास उवाच॥
यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा। ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ॥१३-१२२-३॥
मैत्रेय उवाच॥
निर्दोषं निर्मलं चैव वचनं दानसंहितम्। विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥१३-१२२-४॥
भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम। भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ॥१३-१२२-५॥
अपि मे दर्शनादेव भवतोऽभ्युदयो महान्। मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ॥१३-१२२-६॥
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्। त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ॥१३-१२२-७॥
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च। न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥१३-१२२-८॥
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः। एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ॥१३-१२२-९॥
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः। प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥१३-१२२-१०॥
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम्। तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः ॥१३-१२२-११॥
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः। स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः ॥१३-१२२-१२॥
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः। न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥१३-१२२-१३॥
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः। तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥१३-१२२-१४॥
ये योनिशुद्धाः सततं तपस्यभिरता भृशम्। दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ॥१३-१२२-१५॥
तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते। ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥१३-१२२-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.