Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.123
भीष्म उवाच॥
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत। दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ॥ लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ॥१३-१२३-१॥
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम्। दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ॥ यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥१३-१२३-२॥
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः। तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ॥१३-१२३-३॥
अहं दानं प्रशंसामि भवानपि तपःश्रुते। तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥१३-१२३-४॥
तपसा महदाप्नोति विद्यया चेति नः श्रुतम्। तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥१३-१२३-५॥
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः। सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥१३-१२३-६॥
दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम्। सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ॥१३-१२३-७॥
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः। तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥१३-१२३-८॥
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः। तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ॥१३-१२३-९॥
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः। दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥१३-१२३-१०॥
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्। अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ॥१३-१२३-११॥
पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च। अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते ॥१३-१२३-१२॥
अकर्ता चैव कर्ता च लभते यस्य यादृशम्। यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ॥१३-१२३-१३॥
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित्। मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥१३-१२३-१४॥
कौमारदारव्रतवान्मैत्रेय निरतो भव। एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥१३-१२३-१५॥
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता। यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥१३-१२३-१६॥
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा। दानेन तपसा चैव सर्वपापमपोह्यते ॥१३-१२३-१७॥
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्। एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥१३-१२३-१८॥
तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम्। स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥१३-१२३-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.