13.124
शाण्डिलीसुमनासंवादः
युधिष्ठिर उवाच॥
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर। श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥१३-१२४-१॥
भीष्म उवाच॥
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम्। कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥१३-१२४-२॥
केन वृत्तेन कल्याणि समाचारेण केन वा। विधूय सर्वपापानि देवलोकं त्वमागता ॥१३-१२४-३॥
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा। सुता ताराधिपस्येव प्रभया दिवमागता ॥१३-१२४-४॥
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा। विमानस्था शुभे भासि सहस्रगुणमोजसा ॥१३-१२४-५॥
न त्वमल्पेन तपसा दानेन नियमेन वा। इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥१३-१२४-६॥
इति पृष्टा सुमनया मधुरं चारुहासिनी। शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥१३-१२४-७॥
नाहं काषायवसना नापि वल्कलधारिणी। न च मुण्डा न जटिला भूत्वा देवत्वमागता ॥१३-१२४-८॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च। अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥१३-१२४-९॥
देवतानां पितॄणां च ब्राह्मणानां च पूजने। अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥१३-१२४-१०॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्। अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥१३-१२४-११॥
असद्वा हसितं किञ्चिदहितं वापि कर्मणा। रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥१३-१२४-१२॥
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्। आसनेनोपसंयोज्य पूजयामि समाहिता ॥१३-१२४-१३॥
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति। भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥१३-१२४-१४॥
कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु। प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥१३-१२४-१५॥
प्रवासं यदि मे भर्ता याति कार्येण केनचित्। मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥१३-१२४-१६॥
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्। प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥१३-१२४-१७॥
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा। आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥१३-१२४-१८॥
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा। गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥१३-१२४-१९॥
इमं धर्मपथं नारी पालयन्ती समाहिता। अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥१३-१२४-२०॥
भीष्म उवाच॥
एतदाख्याय सा देवी सुमनायै तपस्विनी। पतिधर्मं महाभागा जगामादर्शनं तदा ॥१३-१२४-२१॥
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि। स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् ॥१३-१२४-२२॥